________________
आचाराङ्ग सूत्रम् १/-/५/५/१७६
तदेवमुद्युक्तेसरयोर्गतिमुपलभ्य पञ्चविद्याचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह-- 'अत्रापि' असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहि - बालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच - नित्यत्वादमूर्त्तत्वाञ्चात्मनः प्राणातिपात एव नास्त्याकाशस्यैव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम्, उक्तं च
119 11
२३२
“न जायते न म्रियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्यो ऽयमभेद्योऽयमविकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः " इत्यादि अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह
मू. (१७७) तुमंसि नाम सच्चैव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चैव जं अज्जावेयव्वंति मन्नसि तुमंसि नाम सच्चैव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जंउद्दवेयंति मन्नसि, अंजूचेयपडिबुद्धजीवी, तम्हा न हंता नवि धायए, अनुसंवेयणमप्पाणेणं जंहंतव्वं नाभिपत्थए वृ. योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरः पाणिपादपार्श्वपृष्ठोरूदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा य भवतो हननोद्यतं ट्वाचा दुःखमुत्पद्यते एवमन्वेषामपि तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवतिनात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च
-
11911
॥२॥
"
“पञ्चेन्द्रियापि त्रिविधं वलं च, उच्छ्वासनिः श्वासमथान्यदायुः । प्राणादशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥"
न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसुत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं वं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे क्रमौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि स्वानेकशो भवतोऽपि भावात्त्वमेवासौ, एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह- 'अञ्जु'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येव्यतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह - -'तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात् नाप्यपरैर्घातयेत् न च घ्नतोऽनुमन्येत, किंच-संवेदनम् - अनुभवनं अनु-पश्चात्संवेदनं केन ? – आत्मना, यत्परेषा मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International