________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक १५
२३३
संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्त्रभिप्रार्थयेत् - नाभिलषेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणमात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह -
मू. (१७८) जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए - तिबेमि ।।
वृ. य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता-पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानत्मकत्वादिति । ज्ञानात्मनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्त्र, भेदाभावोऽत्र केवलं चिकीर्षित नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्त्तमेतत् तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापरि स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः ?, अनन्तधर्म्मात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्म्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मनकतया विनाशेऽप्यपरामूर्त्तत्वासङ्घयेयप्रदेशताऽगुरुल-ध्वादिधर्भसद्भावादविनास एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कतृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्,
'तथाहि - तत्करणं क्रिया वा भवेद् ?, यदि करणं तद्दात्रादिवद्भिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्म्मस्थाऽपीत्येवं भेदसम्भवे कुत एक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं सामान्यविशेषाकारतया वस्तु जानाति विजानाति आत्मा, नतस्मादात्मनो भिन्नं ज्ञानं, तथाहि न करणतया भेदः, एकस्यापि कर्तृकर्म्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको भेदो भवताऽप्यभ्युपगत एव, अपिच 'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चैकत्वे यद्भवति तद्दर्शयितुमाह- 'तं' ज्ञानपरिणामं 'प्रतीत्य' आश्रित्यात्मा तेनैव 'प्रतिसङ्ख्यायते' व्यपदिश्यते,
-
तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह - 'एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः इत्यधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
अध्ययनं - ५ - उद्देशकः - ५ - समाप्तः
-: अध्ययनं - ५ - उद्देशकः-६ :
वृ. उक्तः पञ्चमोद्देशकः साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्ध - इहानन्तरोद्देशके इदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपक्कच्चि कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तव्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम् -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org