________________
श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः५
२३१ स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्यनस्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगितिमन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति,
तथाहि-चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयर्लोकान्तद्वयगतयोर्वेक्यमित्यादिकमसम्पगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विरसापरिणामने शीघ्रगतित्वात् परमाणोरेकसमयेनासङ्घयेय-प्रदेशातिक्रमणं, यथाहि अङ्गुलिद्रव्यमेकसमयेनासङ्ख्येयान-याकाशप्रदेशानतिलक्यति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेनुमानमन्वेष्टव्यं, तथाहि-यद्यनेकप्रदेशातिक्रमणंसामयिकं न भवेत्ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्घयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेटबाधाऽऽपद्येतेति यत्किञ्चिदेतत् ४ । साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तुयलेन तथारूपतयैव भावितंतत्सम्यग्वा स्यादसम्यग्वा, तथापितस्य तत्र सम्यगुप्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५।
-साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किञ्चिद्वस्तुमन्यमानस्य शङ्का स्यादग्दिर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया, असम्यग्पालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, 'यद्यथा शङ्कयेत्तत्तथैव समापद्यते'ति वचनादिति ६ ॥ यदिवा - “समियंति मन्नमाणस्स" इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिताः 'इतिः' उपप्रदर्शने तामेतांशमितांमन्यमानस्य शुभाध्यवसायिनः ‘एकदे'त्युत्तरकालमपिशमितैव भवति-उपशमपत्तैवोपजायते, अन्यस्य तुशमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयनपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थित- पदार्थस्वभावदर्शितया सम्यगसम्यगिति चोटप्रेक्षमाणः-पर्यालोचयत्रपरमनुप्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणंशङ्कयावाऽपधावन्तंब्रूयाद्, यथा-'उप्रेक्षस्व'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तंजीवादितत्त्वंघटामियतत्याहोश्चिनेत्यक्षिणी निमील्यचिन्तयेति भावः।
-यदिवा उत्प्रेक्षमाणः संयममुत्-प्राबल्येनेक्षमाणः- संयमे उद्यच्छन्ननुप्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुप्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्हा-'इत्येवं पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः कर्मसन्ततिरूप 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोटप्रेक्षणं स्यात्, नान्यथेति । सम्यगुठोक्षमाणस्य च यत्स्यात्तदाह-'से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता ज्ञानदर्शनस्थैर्यं चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गति-सकलजनोपहास्य-रूपामधमस्थागतिं वा पश्यतेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org