________________
२२८
आचाराङ्ग सूत्रम् १/-/५/५/१७३
षट्त्रिंशद्गुणगणाधारो हृदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति -समध्यास्ते, किंभूतः ? - 'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ? -जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यह्रदकल्पः 'सर्वतः ' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराहइह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि हृदकल्पाः किम्भूताः ? -
प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञावन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयमहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि 'प्रबुद्धोः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्म्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-‘'आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कुशाग्रीयया बुद्धया विचार्यमित्याह - एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतत्पश्यत
‘कालः’समाधिमरणकालस्तदभिकाङ्क्षया साधवो मोक्षाध्वनि संयमे परिः समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति ॥ आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह
मू. (१७४) वितिगिच्छसमावन्त्रेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अनुगच्छति असिता वेगे अनुगच्छंति, अनुगच्छ्रमाणेहिं अन्नुगच्छमाणे कहं न निव्विजे ?
वृ. विचिकित्सा या चित्ताविप्लुतिः यथा इदमप्यस्तीत्येवमाकारा युक्तया समुपपन्नेऽ पर्थे मतिविभ्रमो मोहोदयाद्मवति, तथाहि अस्य महतस्तपः क्लेशस्य सिकताकणकवलनिःस्वादस्य स्थात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिध्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च, तथाहि अर्थस्त्रिविध:सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्म्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति, तस्मिन् धर्म्माधर्म्माकाशादी या विचिकित्सेति, यदिवा 'विइगिच्छति विद्वज्जुगुप्सा, विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तङ्गास्तेषां जुगुप्सा - निन्दा अस्नानात् प्रस्वेदजलक्लिन्न मलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति
- को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्ननात्मना नोपलभते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org