________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक: ५
'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुषिन्तान्तःकरणे हि कथयतोऽप्याचार्यस्य सम्यकत्वाख्यां बोधिं नावाप्नोति । यश्चावाप्नोति स गृहस्थो वास्याद्यतिर्वेति दर्शयितुमाह- 'सिताः' पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यकत्वं प्रतिपादनयन्तमाचार्यमनुगच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्ता वा 'एके' विचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह- आचार्योक्तं सम्यकत्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ? -
- असदनुष्ठानस्य, मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यकत्वमेव प्रतिपद्येतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः अवगच्छद्भिः बुध्यमानैः सद्भिः कश्चि- दज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन् -- अनवधारयन् कथं न निर्विद्येत ? न निर्वेदं तपः संयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां नचमे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवंच निर्विण्णस्याचार्याः समाधिमाहुः - यथा - भोः साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यकत्वमभ्युपगतं तच न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ॥
२२९
किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्ताः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यकत्वामालम्बनमित्याह
मू. (१७५) तमेव सचं नीसंकं जं जिणेहिं पवेइयं ।
वृ. यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धष्टातसम्यग्हेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम् - अवितथं, 'निःशङ्क' मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्क, यत्किमपि धर्म्माधर्म्माकाशपुद्गलादिप्रवेदितं, कैः ? - 'जिनैः' तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि न पुनर्विचिकित्सा कार्येति किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते ?, संसारान्तर्वर्त्तिनो मोहोदयात्तकत्किं ? यन्त्र स्यादिति,
तथा चागमः
"अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्पं वेदेति ?, हंता अत्थि, कहन्नं समणावि निग्गंथा कंखामोहणिजं कम्मं वेयंति ?, गोअमा ! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसभावन्ना कलुससमावन्ना, एवं खलु गोयमा ! समणावि निग्गंथा कंखामोहणिज्जं कम्पं वेदंति, तत्थालंबणं 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं,' सनूनं भंते! एवं मणं धारेमाणे आणाए आराहए भवति ?, हंता गोअमा ! एवं मणं धारेमाणे आणाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org