________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५
२२७ सूत्रार्थोपयुक्तनिरुद्धम-नोयोगः, एवम्भूतश्चकिमपरंकुर्यादित्याह-परिःसमन्तात्वर्जयेत्-परिहरेत् 'सदा' सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसंहरणार्थमाह-'एतद्' यदुद्देशकादेरारभ्योक्तं, मुनेरिदं मौनमुनिमावो वातदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥
अध्ययनं-५ उद्देशकः-४ समाप्तः
___ -अध्ययनं-५-उद्देशकः-५:वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान्परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च द्रहोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्तव्यमिति, एतप्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (१७३) से बेमितंजहा-अविहरएपडिपन्नेसमंसिभोमेचिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति-तिबेमि।
वृ.सेशब्दस्तच्छब्दार्थे, यद्गुण आचार्योभवतितदहंतीर्थकरोपदेशानुसारेणब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङगसमुच्चयार्थः, ते चामी भङ्गाः-एको द्रहो-जलशयः परिगलनेताः पर्यागलतोताश्चसीतासीतोदाप्रवाहद्दवत्, अपरस्तुपरिगलतोताःनो पर्यागलतोताः, पद्बहदवत्, तथापरोनोपरिगलनेताः पर्यागलवेताश्च, लवणोदधिवत्, अपरस्तु नो परिगलवेता नो पर्यागलवेताश्च, मनुष्यलोकाबहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणभावात्, साम्परायिककम्मपिक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाअप्रतिश्रावित्वात, कुमार्गप्रतिचतुर्थभङ्गपतितः, कुमार्गस्यहिप्रवेशनिर्गमाभावात्, यदिवा धर्मिभेदेन भङ्गायोज्यन्ते
तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयभङ्गस्थस्त्वहालन्दिकः, स च क्वचिदर्थापरिसमाप्तावाचायदिनिर्णयसद्मावात्, प्रत्येकबुद्धास्तूमयाभावाच्च- तुर्यभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसमाविनाऽधिकारः, तथाभूतस्यैवायं इददष्टान्तः, सच ह्रदो निर्मलजलस्य प्रतिपूर्णो' जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमा- नोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-उपगतं रजः कालुष्यापादकं यस्यसतथा, नानाविधांश्च यादसांगणान्संरक्षन्सह वायादोगणैरात्मानमारक्षन्-प्रतिपालयन्सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव।
यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति- “सः' आचार्यः प्रथममङ्गपतितः पञ्चविधाचारसमन्वितोऽधविधाचार्यसम्पदुपेतः तद्यथा॥१॥ "आयार सुअ सरीरे वयणे वायण मई पओगमई।
एए सुसंपया खलुअमिआ सङ्ग्रहपरिना"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org