SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं - ५, उद्देशक:४ २२५ मू. (१७२) सेपभूयदंसीपभूयपरिन्नाणेउवसंतेसमिएसहिए सयाजए, दुटुंविप्पडिजिवेएइ अप्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगमि इत्थीओ, मुनिना हु एवं पवेइयं, उब्बाहिजमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुजा अवि उड्ढं ठाणं ठाइजा अवि गामाणुगामं दूइजिजा अवि आहारं वुच्छिदिज्जा अविचए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति,पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए नो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवञ्जइ सयापावंएवं मोनंसमनुवासिज्जासित्तिबेमि वृ. 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येतिप्रभूतदर्शी, साम्प्रतेक्षितयान यत्किञ्चनकारीत्यर्थः, तथाप्रभूतसत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा, तथा पञ्चभिः समितिभिः समितःसम्यग्वा मोक्षमार्गमितःसमितः, तथा ज्ञानादिभिःसहितः-समन्वितः सह हितेन वासहितः, ‘सदा' सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते। स च स्त्र्याद्यनुकूलपरीषहोपपत्ती किं विदध्यादित्याह-दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं विप्रतिवेदयति' पर्यालोचयति, तद्यथा सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललबब्धजन्मा अकार्याकरणतयोस्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविता. शस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?,अथवा वैषयिकसुखस्यदुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद्? अन्योवापुत्रकलत्रादिकोजनोमम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किंतप्रतीकारादिकं कुर्यादिति? ।यदिवैवंस्त्रीजनस्वभावंचिन्तयेदिति सूत्रेणैव दर्शयति-सएषस्त्रीजनआरमयतीत्यारामःपरमश्वासावारामश्चपरमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः,याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावस्वत एव परित्यजेत् । एतन्त्र तीर्थकरेण प्रवेदितमिति दर्शयितुमाह 'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तं, यथास्त्रियो भावबन्धनरूपाः, 'प्रवेदितं प्रकर्षणादौ वा व्याख्यातमिति। एतच्च वक्ष्यमाणंप्रवेदितमित्याह-उत्-प्राबल्येनमोहोदयाद् बाध्यमानः-पीड्यमानः उद्बाध्यमानः कैः?-ग्रामधÉः ग्रामाः-इन्द्रियग्रामास्तेषांधाः-स्वभावा यथास्वं विषयेषुप्रवर्तनं तैरुद्बाध्यमानोगच्छान्तर्गतःसन्गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यतआह-अपिः सम्भावनायां, निर्बल-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तोजीस्पात, यदिवा निर्गतंबलं-सामर्थ्यस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावेच ग्रामधर्मोपशमदर्शनाद, बलाभावश्चाहारहान्या स्यादिति दर्शयति अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेश कुर्यादित्येतद्दर्शयति-अप्यूर्वंस्थानं तिष्ठेत्, शीतोष्णादौकायोत्सर्गेणातापनांकुर्यात्, तेनाप्यनुपशमे [115 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy