________________
२२४
आचाराङ्ग सूत्रम् १/-/५/४/१७०
युगमात्र ष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च
मू. (१७१) से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विनिवट्टमाणे संपलिज्रमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचित्रा एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं, जं आउट्टिकयं कंमं तं परित्राय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी ।
वृ. 'स' भिक्षुः सदा गुवदिशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्- गच्छन् प्रतिक्रामन्- निवर्त्तमानः सङकुचन् हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्त्तमानः समस्ताशुभव्यापारात्, सम्यक् परिः समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन् परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयं तत्र निविष्टस्य विधिः- भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमाज्य च कुक्कुटीविजृम्भितध्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्व- भयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्त्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदव- श्यंभावितया यत्स्यात्तदाह
'एकदा कदाचित्, 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्त्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः- कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रैणेव दर्शयति- एके 'प्राणाः प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्म्मबन्धं प्रति विचित्रता, तथाहि शैलेश्यवस्थाया मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तः कोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचत्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौजघन्यतः कर्म्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः ।
स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह- इह-अस्मिन् लोके-जन्मनि वेदनम्अनु- भवनमिहलोकवेदनं तेन वेद्यम् - अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म्म कायसङ्घट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यतु पुनः कर्म्माकुट्टया कृतम् - आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेक:- प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वा अभावाख्यमुपैति तत्करोति येन कर्म्मणोऽभावो भवति । यथा च कर्म्मणो विवेको भवति तथा दर्शयितुमाह-'एव' मिति वक्ष्यमाणेन प्रकाण 'से' तस्य कर्म्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्त्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गाणधरश्चतुर्द्दशपूर्वविद्वेति ।।
किम्भूतः पुनरप्रमादवान् भवतीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org