SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, अध्ययनं-५, उद्देशक:४ २२१ द्राश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोमेऽपिदुष्पराक्रान्तमेवेति, एतच नसर्वस्यैवदुतिंदुष्पराक्रान्तंच भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ? -अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यांस्यात्, तत्रश्रुताव्यक्तोयेनाचारप्रकल्पोऽर्थतोनाधिगतो भवतिगच्छगतानां तन्निर्गतानांतुनवमपूर्वतृतीयवस्तित्वति, वयसाचाव्यक्तआषोडशवर्षाद्गच्छगतानांतनिर्गतानां चत्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्मभावादति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापिन कल्पते, बालतयासर्वपरिभवास्पदत्वाविशेषतःस्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम्, अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषेषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्मश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषाअपि समितयोवाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेणवाव्याध्युद्भवे संयमात्मविराधनाप्रवचनहीलनाच, तत्रयदिकरुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तह्मज्ञानतया षट्कायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्रतथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारदौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि चग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च॥१॥ "अक्कोसहणणमारणधम्मष्भंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावंमि" इत्येवमादिनोपदेशेन गच्छान्तर्गतोगुरुणाऽनुशास्यते, गच्छनिर्गतस्यपुनर्दोषा एव केवला इति, उक्तंच॥१॥ “साहमिएहिं संमुजएहिं एगागिओ अजो विहरे। ___ आयंकपउरयाए छक्कायवहमि आवडइ ॥२॥ एगागिअस्स दोसा इत्थी साणे तहेव पडिणीए। भिक्खऽविसोहि महव्वय तम्हा सबिइज्जए गमणं" इत्यादि, गच्छान्तवर्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेतिस्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, कोहि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि स्वातन्त्रयगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेनस्य शुभाचाराधारस्यगच्छस्यान्तर्वर्तिनःक्कचिप्रमादस्खलितेचोदिताः अवगणय्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy