SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० आचाराङ्ग सूत्रम् १/-1५/३/१६८ प्रज्ञानंपदार्थाविर्भावकं यस्यात्मनस्तेनात्मनासर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणात्मनान सावद्यानुष्ठानविधायी स्यादितिभावार्थः यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं, यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैवदर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यकत्वंवा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यकत्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं-संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यकत्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यकत्वस्य चाभिव्यक्तिकारणत्वात् सम्यकत्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः। एतच न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यकत्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः?-'शिथिलैः' अल्पपरिणामतयामन्दवीर्यैः संयमतपसोधृतिढिमरहितैरिति, किंच-आर्द्रः पुत्रकलत्राद्यनुषङ्गजनितस्नेहादानॊक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणाःशब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः, तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च-अगारं-गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमा वसद्मिः- सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह 'मुनिः' जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावधानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति। कथंच तद्भुननमित्याह-प्रान्तं-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात्, तत् सेवन्ते' तदभ्यवहरन्ति, के ते? - 'वीराः' कर्मविदारणसहिष्णवः, किंभूताः ?-सम्यकत्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-एषः अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौघः संसारस्तंतरतीति, कोऽसौ?. मुनिः, वर्तमानसामीप्येवा वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?-यः सावद्यानुष्ठानाद्विरत् इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, ब्रवीमिति पूर्ववत् । अध्ययनं-५ उद्देशकः ३ - समाप्तः अध्ययनं-५-उद्देशकः४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरभ्यते, अस्यचायमभिसम्बन्धः-इहायोद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्येतप्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावेदोषोद्मावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१६९) गामाणुगामं दूइजमाणस दुजाई दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो वृ. ग्रसति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य अनेकार्थत्वाद्धातूनां विहरतःएकाकिनःसाधोर्यत्स्यात्तद्दर्शयति-दुष्ट यातंदुर्यातं, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजसाच्छेदवत्, तथा दुष्टं पराक्रान्तम्-आक्रन्तं स्थानमेकाकिनो भवति, स्थूलभ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy