________________
श्रुतस्कन्धः- १, अध्ययनं -५, उद्देशकः३
२१९ वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्याम्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्गइतिभावार्थः ।किंच-अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डिलोकं वा पचनवपाचनौद्देशिकसनित्ताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वाआत्मानं निवृत्ताशुभव्यापारमुप्रेक्षमाणः संविद्धपथोमुनिः स्यात् इति लोकं चान्यथोटोक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तैर्हेतुभिर्यबद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह
___ ‘स कर्मपरिहर्ता कायवाङ्गनोभिर्न हिनस्ति जन्तून न घातयत्यपरै प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानंसंयमयति, सप्तदशप्रकारंवासंयमंकरोति संयमयति,आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगब्मइ' 'गल्भ धार्ये' असंयमकर्मसु प्रवृत्तः सन्नप्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिद्रेतिनधृष्टतांअवलम्बतइति, उपलक्षणार्थवादस्य क्षुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह-'उठोक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येक सातमुप्रेक्षमाणश्च किं कुर्यादित्याह
वर्ण्यते-प्रशस्यते येन स वर्णः-साधुकारस्तदादेशी वदिशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपः संयमादिकमप्यारम्भ यशः कीत्यर्थं नारभते, प्रवचनोद्मावनार्थं त्वारभते, तदुद्मावकाश्चामी॥१॥ “प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च ।
विद्यासिद्धः ख्यातः कविरपिचोदुमावकास्त्वष्टौ" यदिवा वर्णो-रूपं तदादेशी-तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-‘एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा मोक्षे तदुपाये वा दत्तैकष्टिर्न कञ्चन पापारम्भमारभेत इति, किं चमोक्षसंयमाभिमुखा दिक्ततोऽन्या विदिक्तांप्रकर्षणतीर्णोविदिक्प्रतीर्णः, सचैवम्भूतःसन्नारम्भी स्यात्, कुमार्गपरित्यागेननपापारम्भान्वेषीभवतीत्यर्थः,किंच-चरणंचारः-अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः 'प्रजास्वरतः प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः-तदारम्भाप्रवृत्तो निमित्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः सनिर्विण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरभ्भेऽपिनिर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ।। यश्च प्रजास्वरक्तः आरम्भरहितः स किम्मूतः स्यादित्याह
मू. (१६८) से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिशं पावकम्मं तं नो अनेसी, जं संमंति पासहा तं मोणंति पासहा.जं मोणंति पासहा तं संमंति पासहा, न इमं सक्क, सिढिलेहिं अबिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुनी मोनंसमायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदसिणो, एसओहन्ते मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि।। वृ.वसु-द्रव्यं, सचाम्र संयमस्तद्विद्यतेयस्यसनिवृत्तारम्भो मुनिर्वसुमान् सर्वसम्यगन्वागतं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org