________________
२१८
आचाराङ्ग सूत्रम् 9/14/३/१६६ भवदुपदेशाद् अपि सिंहेनापिसह युद्धये, नभे कर्मक्षयार्थ प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह-अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषङ्वर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहेष्वपि दुष्प्रापेति दर्शयितुमाह
मू. (१६७) जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परित्राविवेगे भासिए, चुए हु बाले गब्माइसु रजइ, अस्सिं चेयं पवुच्चइ, रूवंसि वा छणसि वा, से हु एगे संविद्धपहे मुनी, अन्नहा लोगमुवेहमाणे, इय कम्म परिन्नाय सव्वसो से न हिंसइ, संजमई नो पगब्मइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचनं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु
वृ.एतदौदारिकंशरीरं भावयुद्धाह,खलुरवधारणे, सचभित्रक्रमो,दुर्लभमेव-दुष्प्रापमेव, उक्तंच॥१॥ “ननुपुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् " इत्यादि, पाठान्तरं वा-“जुद्धारियं च दुल्लहं" तत्रानायु सङग्रामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्धयस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्चभावयुद्धाहशरीरंलब्वाकश्चित्तेनैव भवोनाशेषकर्मक्षयंविधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैभरतवत्, कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरोन सेत्स्यत्येव, किमित्येवं यत आह
यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृमिः ‘परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः ‘भाषितः' प्रज्ञापितः, सच मतिमतातथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानावंदर्शयन्नाह लब्ध्वाऽपिदुर्लभ मनुजत्वं प्राप्य च मोक्षकगमनहेतुं धर्म पुनरपि कर्मोदयात्तस्मात् च्युतो बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां तेगर्मादयः तेष्वेव गार्द्धयमुपयाति, यथैभिः सार्द्ध ममवियोगोमाभूतइत्यध्यवसायीभवति, यदिवाघाच्युतस्तत्करोतियेनगर्भादिषुयातनास्थानेषु सङ्गमुपयाति, 'रिजईत्ति वा क्वचित्पाठः, रीयते-गच्छतीत्यर्थः। स्यात्-क्वोक्तमिदं?
यत्प्राग्व्यावर्णितमित्याह-'अस्मिनितिआर्हतेप्रवचने एतत् पूर्वोक्तं प्रकर्षणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह--'रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यांप्रवर्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आम्रवद्वाराणां चहिंसाप्रधानत्वात्तदादित्वाच्चतदुपादानमिति।बालोरूपादिविषयनिमित्तं धर्माच्युतः सन्गर्भादिषु रज्यते, अनाहते मार्गे इदमुच्यते, यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्ततेस किंभूतः स्यादित्याह__'स' जितेन्द्रियो, हुरवधारणे, स एवैकः-अद्वितीयो ‘मुनिः' जगत्रयमन्ता ‘संविद्धपथः' सम्यग्विद्धः-ताडितः क्षुण्णः पन्थाः-मोक्षमार्गाज्ञानदर्शनचारित्राख्योयेन स तथा, संविद्धभयेत्ति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only