________________
श्रुतस्कन्धः-१, अध्ययनं-५,उद्देशक:३
२१७
___'जे नो पुबुट्ठायी पच्छानिवाती', तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणिधर्मचिन्ता, तदुत्थानप्रतिषेधेचदूरोत्सादितैवनिपातचिन्तेति।चतुर्थभङ्गदर्शनाय वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनामावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभङ्गपतिता युक्तावक्तुं, तथाहि-तेषांसावधयोगानुष्ठानेनानुत्थानतयाप्रतिज्ञामन्दरारोपाभावानिपाताभावः, शाक्यादिरपिचतुर्थभङ्गपतितइत्यत आह-'सोऽपि' शाक्यादिर्गणः पञ्चमहाव्रतभारारोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चानिपातीत्यतस्ताश एवगृहस्थतुल्य एव स्याद्, आम्रवद्वाराणामुभयेषाम्प्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि येसावद्यानुष्ठायिनस्तेऽपिताध्क्षा एवेतिदर्शयन्नाह-येऽपिस्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः ।। स्वमनीषिकापरिहारार्थमाह
मू. (१६६) एवं नियाय मुनिना पवेइयं, इह आणाकंखी पंडिए अनिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुन्झेन बुज्झओ?
वृ. 'एतद्' यदुत्थाननिपातादिकंप्रागुपन्यस्तंतत्केवलज्ञानावलोकनेन नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं कथितम् इदंचान्यत्प्रवेदितमित्याह-इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् ‘आज्ञां तीर्थकरोपदेशमाकाश्रितुंशीलमस्येत्याज्ञाकाङक्षी-आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः? - 'पण्डितः' सदसद्विवेकज्ञः अस्निहः' स्नेहरहितः । रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यलवान् स्यादित्येतदाह-पूर्वरात्रं-रात्रेः प्रथमो यामोऽपररात्रं-रात्रेः पाश्चात्यः एतद्यामद्वयमपि यतमानः सदाचारमाचरेत, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात्।
किंच-सदा सर्वकालं 'शीलम् अष्टादशभेदसहस्रसङ्घयं संयमवायदिवाचतुर्द्धाशीलमहाव्रतसमाधानंतिम्रोगुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्यमोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशीलनिव्रतानांचनरकादिपातविपाकमाकागमात्, भवेत् स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझज्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्माश्रुत्वा स्यात् अकामोऽसश्चेत्यनेनचोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं ।
ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगृहितबलवीर्यस्य पराक्रममाणस्या टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्वयेनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org