________________
२१२
आचाराङ्गसूत्रम् 9/-1५/२/१५९ 'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, तथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरितिप्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिवृत्तिश्रद्धासंवेगलक्षणः सन्धिः' अवसरोमिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवान्तित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह
'जेइमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेणगृह्यते अनेनाटप्रकार कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्चगतः एवम्भूतश्चभावीत्येवंयःक्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-'एस मग्गे' इत्यादि, 'एषः' अननन्तरोक्तो ‘मार्गो' मोक्षपथः 'आर्यैः' सर्वहयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितःप्रवेदितइति।न केवलमनन्तरोक्तो वक्ष्यमाणश्चतीर्थकरैः प्रवेदित इति तदाह-'उट्टिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह
'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनांप्रत्येकंदुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातंचमनअह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो' इत्यादि, पृथग्-भिन्नः छन्दः-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संज्ञिलोके वा, केते? -'मानवाः' मनुष्याः,उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक्प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात्नान्यकृत्तमन्य उपभुङ्गेइति । एतन्मत्वा किं कुर्यादित्याह
से इत्यादि, सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायीप्राणिनोविविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णनित्याद्यप्यायोज्यम् । एतद्विधायीच किमपरं कुर्यादित्याह-'पुट्ठो' इत्यादि, सपञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान्वा तत्सहिष्णुतयाअनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिःप्रेरयेत्, तोरणं च सम्यक्सहनं, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् ॥ यो हि सम्यकरणतया परीषहान् सहेत स किंगुणः स्यादित्याह
मू.(१६०) एस समिया परियाएवियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहुधीरेतेफासे पुट्ठोअहियासइ, सेपुदिपेयंपच्छापेयंभेउरधम्मं विद्धंसणधम्ममधुवं अनिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं स्वसंधि।
Jain Education International
For Private For Private & Personal Use Only
www.jainelibrary.org