SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक: २ २१३ वृ. 'एषः' अनन्तरोक्तो यः परीषहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽ स्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः - प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यक्पर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह - 'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्म्मस्वसक्ताः - पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान्तथाभूतान् साधून् 'आतङ्का' आशुजीवितापहारिणः शूलादयोव्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीड्यन्ति । यदि नामैवं ततः किमित्याह- 'इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहतवान्-व्याकृतवान्, कोऽसौ ? - 'धीरो' धी:- बुद्धिस्तया राजते, स च तीर्थकृदूगणधरो वा, किं तदुदाहतवान् ? -- तैरातङ्गैः स्पृष्टः सन् तान् स्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत् सहेत । किमाकलय्येत्याह-- 'से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्करेतद्भावयेद् यथा पूर्वमप्येतद् असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविचरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पत्रज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्म्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारध्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति 7 उक्तंच ॥ १ ॥ स्वकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते" अपिच-एतदौदारिकं शरीरंसुचिरमप्यौषधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशरार्त्विति दर्शयन्नाह - 'भिदुरधम्म' मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्म्मस्वभावमित्याह- 'भिदुरधम्म ' मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म्म, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुरः प्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वसंनधर्म्यं पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं तथेष्टाहारोपभोगतया धृत्युपष्टम्मादीदारिकशरीरवर्गणापरमाणूपचयाञ्चयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, अत एव विविधः परिणामः अन्यथाभावात्मको धर्म्मः स्वभावो यस्य तद्विपरिणामध यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्च्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-‘पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधम्र्म्माद्याघ्रातीदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभवसरात्मकं दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy