________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक२१
२११
यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह - 'उड्डिय' इत्यादि, धर्म्मचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन्, तीर्थिकोऽप्येवमाह-यथा अहमपि प्रव्रजितो धर्म्मचरणायोद्यत इत्येवं प्रवदन् कर्म्मणाऽवच्छाद्यत इति । स चोत्थितवादी आवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्त्तत इत्याह- 'मामे' इत्यादि, मामां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किंच
‘सयय’मित्यादि, ‘सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म्म' श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः । यद्येवं ततः किमित्याह - 'अट्टा' इत्यादि, , आर्त्ता विषायकषायैः ‘प्रजायन्त' इति प्रजाः–जन्तवः हेमानव!, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, 'कर्म्मणि' अथप्रकारे विभंत्सते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म्यं नाभिजानन्ति कर्म्मबन्धकोविदाश्चेति ?, अत आह— 'जे अनुवरया' इत्यादि, ये केचनानिर्दिष्टस्वरूपाः 'अनुपरताः’ पापानुष्ठानेभ्योऽ निवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषाविद्या अतो विपर्ययेणाविद्या तथा परि समन्तात् मोक्षमाहुः ते धर्म्म नाभिजानन्त इति सम्बन्धः, धर्म्ममजानानाश्च किमाप्नुयुरित्याह‘आवट्टं’ इत्यादि, भावावर्त्तः--संसारस्तमरयट्टघटीयन्त्रन्यायेनानुपरिवर्त्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् ॥
अध्ययनं - ५ - उद्देशक :- १ समाप्तः
-: अध्ययनं - ५ - उद्देशकः २ :
वृ. उक्तः प्रथमोद्देशकः, साम्प्रतंद्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
मू. (१५९) आवन्ती केयावन्ती लोए अनारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसि एस मग्गे आरिएहिं पवेइए, उट्टिए नोपमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए ।
वृ. 'यावन्तः' केचन 'लोके मनुष्यलोके 'अनारम्भजीविनः' आरम्भः - सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च
119 11
"आदाने निक्खेवे भासुरसग्गे अ ठाणगमणाई ।
??
सव्वो पमत्तजोगो समणस्सवि होइ आरंभो
B
तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलंयेषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव - गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवतिसावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवनिर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह - 'अत्र' अस्मिन् सावद्यारम्भेकर्तव्ये 'उपरतः' सङ्कुचितगात्रः, अन्न वाऽऽर्हते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स ? - 'तत्' सावद्यानुष्ठानायातं कर्म्म 'झोषयन् ' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org