________________
आचाराङ्ग सूत्रम् १/-/५/१/१५८
अनेकधा, तत्र दारुसङक्रमो जले सेत्वादिः क्रियते, स्थले वा गर्त्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्कत्यादिरिति यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः ॥ सामप्रतं क्षेत्रादिकमाह-
नि. [२४७ ] खित्तं तु जंमि खित्ते कालो काले जर्हि भवे चारो । भावमंमि नाणदंसणचरणं तु पसत्यमपसत्थं ॥
बृ.क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरणं प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि अतोऽन्यदप्रशस्तं गृहस्थान्यतीर्थिकाणामिति गाथार्थः । तदेवं सामान्यतो द्रव्यादिकं चारं प्रदश्य प्रकृतोपयोगितया यतेर्भावचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाहनि. [२४८] लोगे चउव्विहंमी समणस्स चउव्विहो कहं चारो ? । होई धिई अहिगारो विसेसओ खित्तकालेसुं ॥
वृ. 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो - यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् ?, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेऽप्यक्रोशोपहसनादी नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात् पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह
नि. [२४९ ]
२१०
पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवञ्जए रागदोसविरए य से विहरे ।।
वृ. 'पापोपरतः पापात् पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः क्षेत्रचारमाह - गुरोः कुलं गुरुकुलं- गुरुसानिध्यं तत्सेवको युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह- उद्गतो मार्गादुन्मार्गः - अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्संयमानुष्ठानं कुर्यादिति, गता निर्युक्तिः । साम्प्रतं सूत्रमनुश्रियते
तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह
'से बहु कोहे' इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवत्त्येकचर्यापरतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः -- बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः - कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह
'आसव' इत्यादि, आम्रवाः - हिंसादयस्तेषु सक्तं सङ्ग आश्रवसक्तं तद्विद्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org