SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् 9//५/-/- [ नि. २४० ] वृ. अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासङ्ख्यं लगनीयं, सर्वस्वे धनं सारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले एरण्डः सारः, सारशब्दोऽत्रप्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वाप्रकर्षभूतः, गुरुत्वे वज्रं, मध्ये खदिरः, देशे आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचितोऽचित्तो मिश्रश्चेति, २०४ सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दध्नि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः ॥ भावसारप्रतिपादनायाह नि. [२४१] भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा । साहणय नाणदंसणसंजमतवसा तहिं पगयं ॥ वृ. 'भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम् - अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलार्थमारम्भे प्रवर्तनं ततः फलावाप्तिः प्रधानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ? - सिद्धिः, किम्भूताऽसौ ? - 'उत्तमसुखवरिष्ठा' उत्तमं च तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखं च उत्तमसुखं तेन वरिष्ठा - वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति - 'साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि तस्मिंश्च भावसारे सिध्ध्वाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः ॥ तस्यैव ज्ञानादेः सिद्धयुपायस्य भावसारतां प्रतिपादयन्नाह नि. [२४२] लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियाए । वृ. 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषुच, किम्भूतेषु ? - कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति'गृहाश्रमसमो धर्म्मो, न भूतो न भविष्यति । 119 11 पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः ' गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्त्तते, तथा तीर्थिका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपञ्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता - सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याहनि. [२४३] चइऊणं संकपयं सारपयमिणं दढेण धित्तव्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ वृ. 'त्यकत्वा' प्रोज्झ्य, कं तत् ? - 'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवम्भूतो विकल्पः शङ्का तस्याः पदं निमित्तकारणं तच्चाईप्रोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राहेष्वर्थेषु या संशीतिः - सन्देह इत्येतद्रूपं तच्छङ्कापदं विहाय सारपदं - इदं ज्ञानादिकं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy