________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उपोद्घातः
२०३ नि. [२३८] हरओवमो यतवसंयमगुत्ती निस्संगया यपंचमए।
उम्मग्गवज्जणा छटुंगंमितह रागदोसे य॥ वृ. हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः व्यधिकरणस्यापि गमतकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भकोविषयाभक इतिहिंसकञ्चविषयारम्भकश्चेतिविगृह्यसमाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकःप्राणिनांविषयारम्भकश्चविषयार्थं सावद्यारम्मप्रवृत्तश्चन मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमो देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान्भवतीत्येतचात्रोद्देशके प्रतिपादयिष्यत इति २, तृतीये त्वेषएव विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्चेत्ययमर्थाधिकारः३, चतुर्थेत्वव्यक्तस्य-अगीतार्थस्य सूत्रापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः ४,
पञ्चमकेतु हृदोपमेन साधुना भाव्यं, यथा हिड्दोजलभृतोऽप्रतिवःप्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विनोतसिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्यमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः । नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं घेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाहनि. [२३९] आयणपएणावंति गोण्णनामेण लोगसारुत्ति ।
लोगस्स य सारस्स यचउक्कओ होइ निक्खेवो।। वृ.आदीयते-प्रथममेव गृह्यत इत्यादानं तच तत्पदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम,अध्ययनादावावन्तीशब्दस्योच्चारणाद्, गुणैर्निष्पन्नं गौणंतच तन्नामच गौणनाम तेन हेतुनालोकसारइति, लोकस्य-चतुर्दशरज्वात्मकस्यसारः-परमार्थोलोकसारः द्विपदंनामेत्यतः लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेयातच्चैतत्॥१॥ तिरिअंचउरो दोसुंछद्दोसुंअह दस य एकेक्के ।
___ बारस दोसुंसोलस दोसुंबीसा य चउसुंतु ॥२॥ पुनरवि सोलस दोसुबारस दोसुंतुं हुंति नायव्वा ।
तिसु दस तिसु अठ्ठच्छ य दोसु दोसुंतुचत्तारि ॥३॥ ओयरिअलोअमज्झा चउरो चउरोय सव्वहिं नेया।
तिअतिअदुग दुग एक्वेक्कगंचजा सत्तमीए उ द्रव्यलोको जीवपुद्गलधधिकिाशकालात्मकः षड्विधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यसारप्रतिपादनायाहनि. [२४०] सबस्स थूल गुरुए मझे देसप्पहाण सरिराई।
धण एरंडे वइरे खइरंच जिनादुरालाई ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org