SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं - ४, उद्देशक:३ १९९ 'अनिदानाः' निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह -- 'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान - विदितागमसद्भावः सन्न प्रतिसञ्जवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति, पूर्ववत् । अध्ययनं-४ - उद्देशकः-३ समाप्तः अध्ययनं-४ - उद्देशकः-४ वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरम्भयते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके निरवद्यं तपोऽभिहितं, तच्च विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम् - मू. (१५०) आवीलएपवीलएनिप्पीलएजहित्ता पुव्वसंजोगं हिचा उवसमं, तम्हाअविमणे वीरे, सारएसमिएसहिए सयाजए, दुरनुचरोमग्गो वीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि। वृ. आङईषदर्थे, ईषत्पीडयेद्, अविकृष्टेन तपसा शरीरकमीपीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत उर्द्धवधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्गः सङक्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चेयन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थं तपोऽनुष्ठीयते, स चपूजालाभख्यात्यर्थेन तपसानभवत्यतोनिर्रथकएव शरीरपीडनोपदेशइत्यतोऽन्यथा व्याख्यायतेकर्मैव कार्मणशरीरं वा आपीडयेप्रपीडयेन्निष्पीडयेत्, अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्टयादिषुगुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायांतुनिष्पीडयेत्, अथवाआपीडनमुपीशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह_ 'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किं च - 'हिच्चा' इत्यादि, 'हि गता वित्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किंतत्?-उपशमं-इन्द्रियनोइन्द्रियजयरूपंसंयमंवा 'गत्वा' प्रतिपद्यापीडयेदितिवर्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत्, प्रपीडयेनिष्पीडयेदिति, यतः कापीडनार्थमुपशमप्रतिपत्तिस्तप्रतिपत्तौ चाविमनस्कतेत्याह - 'तम्हा इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत् परित्यागेचावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमनायो न तथा सोऽविमनाः, कोऽसौ?, वीरः-कर्मविदारणसमर्थः, अविमनस्कत्वाच्च यस्यात्तदाह - 'सारए' इत्यादि, सुष्ट्या-जीवनमर्यादयासंयमानुष्ठाने रतःस्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितोज्ञानादिसमन्वितो वा सहितः, 'सदा' सर्वकालंसकृदारोपितसंयमभारः संस्तत्र 'यतेत' यलवान् भवेदिति किमर्थं पुनः पौन-पुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह - 'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ? - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy