________________
१९८
आचारागसूत्रम् 9/-/४/३/१४८
॥३॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् ।
नतं पश्यामि यस्याहं, नासौ भावीति यो मम ।। ॥४॥ (तथा) - एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।
जायते म्रियते चैक, एको याति भवान्तरम्।। इत्यादि, 'किं च-'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्रनियोजयेदित्यर्थः, तथा जर' शरीरकंजरीकुरु,तपसातथाकुरुयथाजराजीणमिवप्रतिभासते, विकृतिपरित्यागद्वारेणात्मानंनिःसारतामापादयेदित्यर्थः, किमर्यमित्येतदितिचेदाह-'जहा' इत्यादि, यथा जीर्णानि निःसाराणि काष्ठानि 'हव्यवाही हुतभुक्खप्रमग्नाति-शीघ्रं भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दान्तिकमाह - ‘एवं अत्तसमाहिए' 'एवम् अनन्तरोक्तदृष्टान्तप्रकरणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अस्निह;' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगतमर्थं नियुक्तिकारो गाथयोपसजिधृक्षुराहनि. [२३४] जह खलु झुसिरं करुं सुचिरंसुक्कं लहुंडहइ अग्गी ।
तह खलुखवंति कम्म सम्भचरणे ठिया साहू । वृ. गतार्था । अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह - विगिंच कोह'मित्यादि, कारणेऽकारणे वाऽतिराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्यं कम्पनं तप्रतिषेधं दर्शयति-अविकम्पमानः॥किं विगणय्यैतत्कुर्यादित्याह
मू. (१४९) इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंच फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहि अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिजासि-तिबेमि॥
वृ. 'इदं' मनुष्यत्वं निरुद्धायुष्कं निरुद्धं-परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च - "दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकपादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञयाजानीहि, परित्यजेरित्यर्थः,आगामिदुःखस्वरूपमाह - 'पुढो' इत्यादि, पृथक् सप्त नरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान्' दुःखानि, चः समुच्चये, न केवलंक्रोधाध्मातस्तस्मिन्नेव क्षणेदुःखमनुभवतीत्यागामीनिपृथगदुःखानिचस्पृशेद्-अनुभवेत्, तेन चातिदुःखेनापरोऽपिलोको दुःखित इत्येतदाह -
___ 'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकदात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं पश्य' विवेकचक्षुषाऽवलोकय । येत्येवं न ते किम्भूता भवन्तीत्यत आह - 'जे निब्बुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमानिवृताः-शीतीभूताः पापेषु कर्मसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org