________________
श्रुतस्कन्धः- १, अध्ययनं-४, उद्देशकः३
१९७ तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवमयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते- ।
तकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यशःकीत्ययश कीत्त्योरन्यतरत् ९, एताश्च नवध्रुवोदय १२ सहिताएकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ८ उपघातं ५ प्रत्ये कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भगं९ अनादेयं १० अपर्याप्तकं ११ यशःकीत्ययशःकीत्योरन्यतर १२ दिति,तत्रैवापर्याप्तकापनयनेपर्याप्तकपराघाताभ्यांप्रक्षिप्ताभ्यांपञ्चविंशतिः२५, षड्विंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाधसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्धातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छ्वास १ सुस्वर २ पराघात ३ प्रक्षेपे सति त्रिंशद्भवति३०,तत्रसुस्वरेनिरुद्ध एकोनत्रिंशत् २९,सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत्
नवोदयस्तुमनुष्यगतिः१ पञ्चेन्द्रियजातिः२त्रसं३बादरं४ पर्याप्तकं ५ सुभगं६ आदेयं ७यशःकीर्ति ८स्तीर्थकरमिति९, एताअयोगितीर्थकरकेवलिनः, एता एवतीर्थकरनामरहिता अधाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतरद्, यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति ।।
यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह -
मू. (१४८)इहआणाकंखी पंडिए अनिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, - जहा जुनाई कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अनिहे, विगिंच कोहं अविकंपमाणे।
वृ.'इह अस्मिन्प्रवचनेआज्ञामाकाजितुंशीलमस्येतिआज्ञाकाङ्क्ष-सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतः स पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्लिहोऽस्लिहः, यदिवा स्निह्यतीति स्निहो-रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्तवाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षीपण्डितो भावरिपुभिरनिहतो, नान्यत्र, यश्चनिहतः सपरमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यादित्याह - 'एगमप्पाण' मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य पालोच्य धुनीयाच्छरीरकं, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वमावनैवं-रूपा भावयितव्येति॥॥ "संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परोवा?।
सर्वेभ्रमन्तः स्वजनाः परेच, भवन्ति भूत्वान भवन्ति भूयः॥ ॥२॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् ।
स्वकर्मभिन्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org