________________
आचाराङ्ग सूत्रम् १/-/४/३/१४७ सकलप्राणिप्रत्यक्षं, तथाहि -कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छा आरीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदभोक्तम्, 'इति : ' उपप्रदर्शन, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा भृतार्द्धा धर्म्मविद ऋजुवश्च भवन्तीति । एतञ्च समस्तवेदिनो भाषन्त इति दर्शयति -
'एव 'मित्यादि, एवं' पूर्वोक्तप्रकारेण 'आहुः उक्तवन्तः, के एवमाहुः ? -समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेराभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह
'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, तएव प्रावादिकाः- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्म्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्म्मबन्धोदयसत्कर्म्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्म्मताकार्यभूतैरागामिबन्धसत्कर्म्मताकारणैश्च कर्म्म परिज्ञायेति, ते चामी
१९६
उदयप्रकाराः, तद्यथा -
मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्रापि कर्म्मप्रकृतीर्यौगपद्येन वेदयतोऽष्टविधं तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षयेवा सप्तविधं, घातिक्षये चतुर्विधमिति साम्प्रतमुत्तरप्रकृतीनामुदयस्थाना न्युज्यन्ते, तत्रज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदय स्थानानि, तद्यथा- दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सज्जवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ -
अनन्तानुबन्ध्यभावे सप्त मिथ्यात्वाभावे षट् अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्तमानयुगलाभावे सजवलनान्यतरवेदोदये सति द्वे, वेदभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड् विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अथैचेति, तत्र संसारस्थानांसयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादशध्रुवोदयाः कर्म्मप्रकृतयः, तद्यथातैजसकार्पणे शरीरे २ वर्णगन्धसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिस्तीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा - मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशः कीर्त्तिरिति ८ ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org