________________
२००
आचाराङ्ग सूत्रम् 9/-/४/४/१५०
मार्गः-संयमानुष्ठानविधिः, केषां ?- 'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह . 'अमियदृ' इत्यादि, अनिवर्तो-मोक्षस्तत्र गन्तुंशीलं येषांतेतथा तेषामिति, यथा चतन्मार्गानुचरणं कृतं भवति तदर्शयति - विगिंच' इत्यादि, 'मांस' शोणित दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्भासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्मूतःसकंगुणमवाप्नुयादित्याह- 'एस' इत्यादि, “एष मांसशोणितयोरपनेतापुरिशयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतोवामुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च
'आयाणिज्जे' इत्यादि, सवीराणांमार्गप्रतिपन्नःमांसशोणितयोरपनेतामुमुक्षूणामादानीयोग्राह्य आदेयवचनश्च व्याख्यात् इति । कश्चैवम्भूत इत्याह- 'जे धुणाइ' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागेवोषित्वा यः समुच्छ्रय' शरीरकंकर्मोपचयंवातपश्चरणादिना धुनाति' कृशीकरोति स आदानीय इति विवधमाख्यातो व्याख्यात इति सम्बन्धः ।। उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्ताभिधित्सुराह --
मू. (१५१) नित्तेहिं पलिच्छिन्नेहिं आयाणप्तोयगढिए बाले, अव्वोच्छिन्नबंधणे अनभिक्तसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि-तिबेमि ।।
वृ.नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि - चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः- यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकियतइत्यादानं-कर्म संसारबीजभूतं तस्यास्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगावातेषुगृद्धः-अध्युपपन्नःस्यात्, कोऽसौ ? -बालः' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः । यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादित्याह – 'अव्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकार कर्म यस्य स तथा, किंच
___ 'अनमिक्वंतं इत्यादि, अनभिक्रान्तः-अनतिलचितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगो वा येनासावनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमितीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञाबोधिः सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थ; तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीन्नास्ति न भावीति । एतदेवाह -
मू. (१५२) जस्स नत्थि पुरा पच्छा मन्झे तस्स कुओ सिया?, से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निक्कादंसी इह मच्चिएहिं, कम्माणं सफलं दठूण तओ निज्जाइ वेयवी।।
१. यस्य कस्यचिदविशेषितस्य कर्मादानोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् 'पश्चादपि एष्येऽपि जन्मनि न भावि ‘मध्ये' मध्यजन्मनि तस्य कुतः स्यात् इति ?, एतदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org