________________
१६
आचाराङ्गसूत्रम् 9/19/-1- [नि.३७]
वृ. शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा, व्यतिरिक्तंद्रव्यशस्त्रंखङ्ग्रायग्निविषस्नेहाम्लक्षार लवणादिकं, मावशस्त्रं दुष्प्रयुक्तो भावः-अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघा तकारित्वादितिभावः ।। परिज्ञापि चतुर्दैत्याहनि. [३७) दव्वं जाणण पञ्चक्खाणे दविए सरीर उवगरणे।
भावपरिण्णा जाणण पञ्चक्खाणंच भावेणं वृ. तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञा आगमनोगमभेदात् द्विधा, अगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यतद्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिक्षेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञादेहोपकरणपरिज्ञानम्, उपकरणंच रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्तिवदमेवाध्ययनंज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात्, प्रत्याख्यानभावपरिज्ञापि तथैव,आगमतःपूर्ववत्, नोआगमतस्तुप्राणातिपातनिवृत्तिरूपामनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति।
गतो नामानिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्ययाते-यथा कश्चिद्राजाअभिनवनगरनिवेशेच्छयाभूखण्डानिविभज्यसमतयाप्रकृतिभ्यो दत्तवान्, तथाकचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाधुपादाने चोपदेशंदत्तवान्, ताश्चप्रकृतयस्यदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान्बुभुजिरे, अयमत्रार्थोपनयः-राजसध्शेन सूरिणा प्रकृतिसशस्य शिष्यगणस्य भूखण्डसशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयम स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानिव्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः तत्रस्थश्चाशेषशास्त्रा दिरलान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमु- चारणीयं, लक्षणं त्विदम् - अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जंच। लखणजुत्तं
-अध्ययन-१ उद्देशकः-१'मू. (१) सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवइ ।
वृ. सुत्तं अट्ठहि य गुणेहिं उववेयं ।।१।।' इत्यादि, तच्चेदं सूत्रम् - 'सुयं म आउसं! तेणं भगवयाएवमक्खायं-इहमेगेसिनोसण्णा भवति' अस्यसंहितादिक्रमेण व्याख्या-संहितोचारितैव, पदच्छेदस्त्वयम् श्रुतं मया आयुष्यमन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साद्यंतं सूत्रपदार्थः समुन्नीयतेभगवान् सुधर्मस्वामीजंबूनाम्न इदमाचष्टे यथा-'श्रुतम् आकर्णितमवगतमवधारितमितियावद्, अनेनस्वमनीषिकाव्युदासो, 'मयेतिसाक्षानपुनः पारम्पर्येण आयुष्पत्रि'तिजात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृतप्रमीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा - आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतवार्थद्वयं 'आमुसंतेण आवनंतेणे'
Jain Education International
For Private & Personal Use Only
www. www.jainelibrary.org