________________
श्रुतस्कन्धः-१, अध्ययनं - १, उद्देशक:9
१७
त्येतत्पाठान्तरमाश्रित्यावगन्तमिति, भगवते'ति भगः-ऐश्वर्यादिषडात्मकः सोऽस्यास्तीति भगवान् तेन, ‘एव"मिति वक्ष्यमाणविधिना 'आख्यात मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, ___ इहे ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायांवाआख्यातमितिसंबन्धो, यदि वा - 'इहे ति संसारे 'एकेषां ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थ, पदविग्रहस्य तु सामासिकन्दाभावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलधुराशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति?,अत्रप्रत्यवस्था,सत्यमेव, किंतुप्रेक्षापूर्वकारतियानोशब्दोपादानं,साचेयम्-अन्येनप्रतिषेधेन सर्वनिषेधः स्याद्, यश्चनघटोऽघट इतिचोक्ते सर्वात्मनाघटनिषेधः, सचनेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनाममिहितास्तसां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः
__ "कई णं भंते ! सण्णाओ पन्नत्ताओ?, गोयमा दस सण्णाओ पन्नत्ताओ, तंजहाआहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्याक्ववोग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्, ॥9॥ "प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः
स पुनस्तदवयवो वा तस्मादन्तिरं वा स्याद्" इति, एचमिहापिन सर्वसंज्ञानिषेदः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति । साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह - नि. [३८] दव्वे सच्चित्ताई भावेऽनुभवणजाणणा सण्या ।
मति होइ जाणणा पुण अनुभवणा कम्मसंजुता वृ. संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनदिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञान-संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति-'मइहोइ जाणणा पुणपत्तिमननं मतिः-अवबोधः साच मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयतिनि. [३९] आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा।
कोह मान माय लोहे सोगे लोगे व धम्मोहे वृ. आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्मोदयादसातोदयाच भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञामूर्छापा, मैथुनसंज्ञा स्त्रयादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा मिध्यादर्शन रूपा मोहोदयात्, [12]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org