________________
श्रुतस्कन्धः-१, अध्ययनं.१, उपोद्घात :
१५
नि. [३२] अट्ठमए य विमोक्खो उवहाणसुयं च नवमगं भणियं ।
___ इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ वृ.स्पष्टे, केवलमित्येष नवाध्ययनरुपआचारो, द्वितीयश्रुतस्कन्धाध्ययनानितुशेषाणिआचाराग्राणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह - नि. [३३] जिअसंजभो अ लोगो जह बज्झइ जह यतं पजहियव्वं ।
सुहदुक्खतितिक्खाविय सम्मत्तं लोगसारोय नि. [३४] निस्संगया यछट्टे मोहसमुत्था परीसहुवसग्गा ।
निजाणं अट्ठमए नवमे य जिणेण एवं ति वृ. तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो-- "जियसंजमोत्तिजीवेषु संयमो जीवसंयमःतेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु लोगो जह बज्झइ जह य तं पजहियव्वं ति, विजितभावलोकेन सयमस्थितेन लोको यथा बध्यते अष्टिवधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररलत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम्-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहाउपसर्गाचा प्रादुर्भवेयुस्तेसम्यक्सोढव्याः अष्टमे त्वयम्-निर्याणम्अन्तक्रिया सासर्वगुणयुक्तेनसम्यग्विधेयेति।नवमेत्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति,तप्रदर्शनं च शेषसाधूनामुत्साहार्थं, तदुक्तम् -
"तित्थयरो चउनाणी सुरमहिओ सिज्झियव्यधुवंमि
अणिगृहियबलविरिओसव्वत्थामसु उज्जमई" ॥२॥ "किं पुण अवसेसिहिं दुक्खक्खयकारणा सुविहिएहिं
होतिन उज्जमियब्वं सपञ्चवायमि माणुस्से"
-साम्प्रतमुद्देशार्थधिकारः शस्त्रपरिज्ञाया अयम् - नि. [३५] जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति।
विरईए अहिगारो सत्थपरिन्नाए नायव्वो वृ.तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवी कायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थषु योजनीय, प्रथमोद्देशके जीवस्तद्बन्धे बन्धो विरतिश्चेत्येवमिति ।।
तत्र शस्त्र-परिक्षेति द्विपदं नाम, शस्त्रस्य निक्षेपमाहनि. [३६] दवं सत्थग्गिविसत्रेहंबिलखारलोणमाईयं ।
भावो यदुप्पउत्तो वाया काओ अविरई या
For Private & Personal Use Only
॥१॥
Jain Education International
www.jainelibrary.org