________________
१
आचारा सूत्रम् 9/19/-1- [नि. २६]
-एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह - नि. [२६]
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं ।
___अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं नि. [२७] सूएण निसाईए कुक्करओ सोवि होइ नावव्वो।
एसो बीओ भेओ चउब्विहो होइ नायव्वो
-अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम्। | उग्रपुरुषः । विदेहः पुरुषः । निषाद पुरुषः शूद्र पुरुषः |
क्षत्ता स्त्री क्षत्ता स्त्री | अम्बष्ठी स्त्री शूद्री स्त्री वा | निषादस्त्री श्वपाकः वैणवः
बुक्कसः कुक्कुरकः -गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह - नि. [२८] दव्वं सरीरभविओ अन्नाणी वस्थिसंजमो चेव ।
भावे उ वस्थिसंजम नायव्वो संजमो चेव वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनांच कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्मतु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयमएव, सप्तदशविधसंयमाभिन्नरुपत्वादस्येति, अष्टादशभेदास्त्वमी-'दिव्याल्कामरतिसुखात्रिविधंत्रिविधेन विरतिरितिनवकम्।औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ।।चरणनिक्षेपार्थमाह - नि. [२९] चरणमि होइ छक्कं गइमाहारोगुणो व चरणंच ।
खइत्तमिजंमि खित्ते काले कालो जहिं जाओ वृ. चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावाचरणमाह - नि. [३०] भावे गइमाहारो गुणो गुणवओ पसत्यमपसत्था ।
गुणचरणे पसत्येण बंभचेरा नव हवंति वृ, भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेअटेगच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्या दृष्टीनां सम्यग् दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम्, इहचानेनैवाधिकारो, यतोनवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमुनशील्यन्तेएतेषां . चान्वार्थाभिधाननि दर्शयितुमाह - नि. [३१) सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं ।
तह लोगसारनामं धुयंतह महापरिण्णा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org