________________
१८२
आचाराङ्गसूत्रम् १/-/४/-1-[नि. २१६]
वृ. प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादोयथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्तएव धर्मप्रवादिकाः, धर्मप्रावादुकाइत्यर्थस्तेषांपरीक्षा-युक्तायुक्तविचारणमिति, तृतीये नवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु समासवचनेन' सङ्क्षपवचनेन 'नियमनं भणितं' संयत उक्त इति ।
तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माञ्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाययावजीवं यत्नो विधेयइति गाथाद्वयार्थः ।। अधुना नामनिष्पननिक्षेपायातस्य सम्यकत्वाभिधानस्य निक्षेपं चिकीर्षुराहनि. [२१७] नामंठवणासम्मंदव्वसम्मंच मावसम्मंच।
एसो खलु सम्मस्सा निक्लेवो चउविहो होइ॥ वृ.अक्षरार्थः सुगमः, भावार्थंतु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहनि. [२१८] अह दव्वसम्म इच्छानुलोमियं तेसुतेसुदब्वेसुं।
कयसंखयसंजुत्तो पउत्त जढ भिन्न छिन्नं वा । वृ. 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरितंद्रव्यसम्यकत्वमित्याह, ऐच्छानुलोमिकं' इच्छा-चेतः-प्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकंतच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षुद्रव्येषुकृताधुपाधिभेदेन सप्तधा भवति, तद्यथा-कृतम्-अपूर्वमेव निविर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्नजीर्णापोढापरावयसंस्कारादिति २,तथाययोर्द्रव्ययोःसंयोगोगुणान्तराधानायनोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयः- शक्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्य लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा-'उवउत्त'त्ति यदुपयुक्तम्-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढं. परित्यक्तं यद्भारादि तत्त्यक्तद्रव्यसम्क् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेभिन्नद्रव्यसम्यक्६, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक्७, सर्वमप्येतत्समाधानकारणत्वाद्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक्प्रतिपादनायाहनि. [२१९] तिविहं तुंभावसम्मंदसणं नाणे तहा चरित्ते य ।
दसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ वृ.त्रिविधंभावसम्यक् दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदतआचष्टे-तत्रदर्शनचरणे प्रत्येकं त्रिविधे, तद्यथाअनादिमिथ्याटेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यकत्वमुत्पादयत औपशमिकं दर्शनम् १, उक्तंच
"ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छत्तानुदए उवसमसम्म लहइ जीवो"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org