________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशका३
१८१
वृ.यो हि क्रोधं स्वरूपतो वेत्तिअनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति चसमानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्यातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न विवियते । साम्प्रतं क्रोधादेः साक्षानिवर्त्तनमाह-'से' इत्यादि, स मेधावी अभिनिवर्तयेद्'व्यावर्तयेत्, किं तत्?'क्रोधमित्यादियावद्दुःखं', सुगमत्वाद्वयाख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतद् अनन्तरोक्तमुद्देशकादेरारभ्यपश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?उपरतशस्त्रय पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ? -'आयाण'मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकमभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, ‘पश्यकस्य'; केवलिनः । ___'उपाधिः विशेषणंउपाधीयत इतिवोपाधिः, द्रव्यतो हिरण्यादिवितोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहंब्रवीमियेनमया भगवत्पादारविन्दमुपास(यता सर्वमेतदश्रावि तद्मवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति
अध्ययन-३, उद्देशकः-४ समाप्तः दृ. गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ।। तत्समाप्तौ चातीतानागतनयविचारातिदेशात्।
अध्ययन-३ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता प्रथम श्रुतस्कन्थे द्वितीय अध्ययन टीकापरिसमाप्ता
(अध्ययनं-४- सम्यकत्व) वृ. उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यांषड्जीवनिकायान्व्युत्पादयताजीवाजीवपदार्थद्वयंव्युत्पादितं, तद्वधेच बन्धं विरतिं च भणताऽऽसवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथाचमुच्यत इति वदता बन्धनिर्जर गदिते,शीतोष्णीयाध्ययनेतु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थत्मकं तत्त्वमभिहितं, तत्त्वार्थश्रद्धानंचसम्यकत्वमुच्यते, तदधुना प्रतिपाद्यते, अनेनसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यकत्वाख्यः शस्त्रपरिज्ञायांप्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनायतुनियुक्तिकार आहनि. [२१५] पढमे सम्मावाओ बीए धम्मपवाइयपरिक्खा।
तइए अणवञ्जतवो न हुबालतवेण मुक्खुत्ति ॥ नि. [२१६] उद्देसंमिचउत्ये समासवयणेण नियमनं भणियं ।
तम्हा य नाणदसणतवचरणे होइ जइयव्वं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org