________________
आचाराङ्ग सूत्रम् १/-/३/४/१३६ सनं कुमारमाहिंदाणं देवाणं, अट्टमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कसहस्साराणंदेवाणं, दसमासपरियाए आणयपाणय आरणच्चुआणंदेवाणं, एगारसमासपरियाए गेवेज्जाणं, वारसमासे समणे निग्गंधे अनुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते उत नेत्याह
मू. (१३७) एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अत्थि सत्यं परेण परं, नत्थि असत्थं परेण परं ।
वृ. 'एकम् अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकमं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किं गुणः क्षपकश्रेणियोग्यो भवतीत्याह- 'सड्ढी' इत्यादि, श्रद्धा--मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् 'आज्ञाया' तीर्थकरप्रणीतायमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी ' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति । किं च'लोगं च' इत्यादि, चः समुच्चये 'लोकं' षड्जीवनिकायात्मकं कषायलोकं वा 'आज्ञाया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया--आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयं भवति । तच्च भयं शस्त्राद्मवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति ?, अस्तीतिदर्शयति'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा- कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽर्त्तिः तस्या ज्वरः ततोऽपि मुखशोषमूर्च्छादय इति, भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह- 'नत्थि ' इत्यादि, 'नास्ति' न विद्यते, किं तद् ? - ' शस्त्रं' संयमः तत् 'परेण पर' मिति प्रकर्षगत्यापन्नमिति, तथाहि - पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्ध्वं गुणस्थानाभावादिति भावः । यो हि क्रोधमुपादानतो बन्धतः स्थिति विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याह
मू. (१३८) जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्रदंसी, जे पिज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदसी, जे गब्भदसी जम्मदंसीसे जे जम्मदंसी से मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी ।
से मेहावी अभिनिवट्टिज्जा कोहं च माणं निच मायं च लोभं च पिज्जं च दोसं च मोहं च गं चजम्मं च मारं च नरयं च तिरियं च दुक्खंच। एवं पासगस्स दंसणं उवरयसत्यस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स ? न विज्जइ ?, नत्थि - त्तिबेमि ॥
१८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org