________________
श्रुतस्कन्धः - १, अध्ययनं ४, उपोद्घात :
उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यकत्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, चारित्रमप्युपशमश्रेण्यामीपशमिकं १ कषायक्षयोपशमात् क्षायोपशमिकं चारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३,
ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा- क्षायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीय क्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिकं केवलज्ञानमिति । तदेवं त्रिविधे। ऽपि भावसम्यकत्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यकत्वादो रूढो ? यदिहाध्ययने व्यावर्ण्यते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि - मिथ्याध्ष्टेस्ते न स्तः, अत्र च सम्यकत्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाद्यवबोधार्थं टोन्तमाचक्षते तद्यथा-
उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोक श्लाध्यां पदवीमगमत्, एतच्च समाकर्ण्य वीरसेने नापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्द्मावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासी जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्त्तुमाहनि. [२२०] कुणमाणोऽवि य किरियं परिचयंतोचि सयणधनभोए । दितोऽवि दुहस्स उरं न जिणइ अंधो पराणीयं ।।
१८३
वृ. कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः ॥ तदेवं दृष्टान्तमुपदश्य दार्शन्तिकमाह
नि. [२२१] कुणमाणोऽवि निवित्तिं परिच्चयंतोऽवि सयणधणभोए । दिंतोऽ विदुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ ॥
वृ. कुर्वन्नपि निवृत्तिम् - अन्यदर्शनाभिहितां, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपि दुःखस्योरः मिथ्याधष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याह
नि. [२२२]
तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा ।
दंसणवओ हि स फलाणि हुंति तवनाणचरणाई ।।
वृ. यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्म्मक्षयः स्यात्, तस्मात्कारणात्कर्म्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनयतो हि 'हिः' हेतौ यस्मात्सम्यगदर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यलवता भाव्यमिति गाथार्थः।। प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org