________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक, ३
पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा - नारकोनारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं तदेवम्भूताव्यपञ्चन्मुच्यते-चतुर्द्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
अध्ययनं - ३, उद्देशकः ३ समाप्तः
-: अध्ययनं -३, उद्देशक:- ४ :
वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके पापकर्म्माकरणतया दुःखसहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्याधिकारनिर्दिष्टं प्रतिपाद्यते, तदनने सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
मू. (१३४) से वंता कोहं च माणंच मायं च लोभंच, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि ।
'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे चषष्ठयाः प्रतिषेधे क्रोध शब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्म्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्यो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः क्षपणोपशमक्रममाश्रित्य च क्रोधादिकक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः,
चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः, क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकर्द्दमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्119 #
सामन्नमनुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नमि उच्छुपुष्कं व निष्फलं तस्स सामण्णं जं अजिअं चरित्तं देणावि पुव्यकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं "
स्वमनीषिका परिहारार्थं गौतमस्वाम्याह- 'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् ‘पश्यकस्य दर्शन' सर्वं निरावरणत्वात्पश्यति-उपलभत इति पश्यः स एव पश्यकःतीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम् - अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह- 'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रीपरतः भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः इदमुक्तं भवति तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः एवमन्येनापि मुमुक्षुण ।
॥२॥
112
१७७
Jain Education International
For Private & Personal Use Only
+
www.jainelibrary.org