________________
१७६
आचाराङ्ग सूत्रम् १/-/३/३/१३१
तं जानीयाद् 'दूरालयिक' मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः मोक्षस्तन्मार्गो वा स विद्यते सय्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह'जं जाणेजे 'त्यादि, यं जानीयाद्दूरालयिकं तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति यो हि कर्म्मणां तदनवद्वाराणां चोचालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठयी स कर्म्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते
-
'पुरिसा' इत्यादि, हे जीव ! आत्मानमेवाभिनिगृह्य धर्म्मध्यानादुद्बहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम् अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्म्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च- 'पुरिसा' इत्यादि हे पुरुष ! सद्भ्यो हितः सत्यःसंयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहिगुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः- आगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह 'सच्चस्से' त्यादि, सत्यस्य - आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किंच- 'सही' त्यादि, सहितो - ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्मां' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा किं करोतीत्याह- 'श्रेयः' पुण्यमात्महितं वा सम्यग् - अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाहमू. (१३२) दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति ।
↑
वृ. द्विधा - रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थं वा यदिवा द्वाभ्यां रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद् ? -जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्ततते, परिवन्दनं परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्ट सर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादिपरिवन्दनं,
तथा माननार्थं कम्मपिचिनोति, टौरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः कमावैिरात्मानां भावयन्ति मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनं, तदेवमर्थं कर्मोपचिनोति । किं च 'जंसि एगे' इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्माने हिताः ।। एतद्विपरीतं हावमू. (१३३) सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुखइ- त्तिबेमि ।।
वृ. सहितो - ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्मवया वा स्पृष्टः सन् 'नो झंझाए 'त्ति नो व्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झाऽनिष्टथवाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः । किंच- 'पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्तव्याकर्त्तव्यतया विवेकेनावधारय
कोऽसौ ? - द्रव्यभूतो- मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति ?आलोक्यत इत्यालोकः, कर्म्मणि धञ्, लोके चतुर्द्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org