________________
. अध्ययनं - ३, उद्देशक : ३
श्रुतस्कन्धः - १,
१७५
वृ. इष्टाप्राप्तिविनाशोत्थोमानसो विकारोऽरतिः, अभिलषितार्थावाप्तवानन्दः, योगिचित्तस्यतु धर्म्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्या रत्यानन्दयोरुपादानकारणाभावदनुत्थानमेवेत्यतोऽपदिश्यतेकेयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तर्ह्यरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह- 'एत्थंपी' त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्रायेन विद्यते 'ग्रहो' गाद्धर्य तात्पर्यं यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवतिशुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह- 'सव्व' मित्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्म्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः -
परिः समन्ताद्व्रजेत् परिव्रजेत् संयमानुष्ठानविधायी भवेदित्ति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति- 'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह- 'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो जन्तु, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते यथा हे पुरुष हे जीव ! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययाधामित्रः किमिति बहिर्मित्रमिच्छसि ? - मृगयसे, यतो ह्युपकारि मित्रं स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं यतो महाव्यसनोपनिपातार्णवपतन हेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि
1
119 11 "दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च”
॥१॥
(तथा) - "अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् "
यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं स चैवम्भूतः कुतोऽवगन्तव्यः ? किंफलश्चेत्याह
मू. (१३१) जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिनिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा ! सच्चमेव समभिजाणाहि, सचस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समनुपस्सइ वृ. 'यं' पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्म्मणां विषयसङ्गानां चोञ्चालयितारम्-अपनेतारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org