________________
१७४
आचाराङ्ग सूत्रम् १/-1३/३/१२८ ॥१॥ "केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं? ।
जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो?" ___ एके पुनर्महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन संसारे मनुष्यलोके वा मानवा-मनुष्य यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवान विद्यते परः-प्रधानोऽस्मादित्यपरःसंयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि ‘नस्मरन्ति' न तदनुस्मृति कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्गन्ति, किं च-अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तुभाषन्ते-एकेरागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपितदेवेति, अपरे तु पठन्ति॥१॥ “अवरेण पुव्वं किह से अतीतं, किह आगमिस्संन सरंति एसे ।
भासन्ति एगे इह माणवाओ, जह स अईअंतह आगमिस्सं" अपरेण-जन्मादिना सार्द्ध पूर्वम्-अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथनं वा' केन वा प्रकारेणातीतंसुखदुःखादि, कथंचैष्यमित्येतदपि नस्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्धयमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्त - मागाम्यपितत्प्रकारमेवेति,यदिवाप्रमादविषयकषायादिनाकाण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाहमू. (१२९) नाईयमद्वं न य आगमिस्सं, अर्द्ध नियच्छन्ति तहागया ।
विहुयकप्पे एयाणुपस्सी, निग्झोसइत्ता खवगे महेसी ।। ७. 'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गर्त-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैवज्ञेयंतथैव गतं-ज्ञानं येषां ते तथागताः-सर्वज्ञाः, तेतुनातीतमर्थमनागतरूपतयैव नियच्छन्तिअवधारयन्ति नाप्यनागतमतिक्रान्तरूपतवैव, विचित्रत्वात्परिणतेः, पुनरर्थग्रहणंपर्यायरूपा), द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के?, तथागताः-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह___ 'विहूय कप्पे' इत्यादि, विविधम्-अनेकधाधूतम्-अपनीतमष्टप्रकारकर्मयेन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-'निज्झेस' इत्यादि, पूर्वोपचितकर्मणां निज्झोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति--
मू (१३०) का अरई के आनंदे ?, इत्थंपि अग्गहे चरे, सव्वंहासं परिचज आलीनगुत्तो परिव्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org