________________
श्रुतस्कन्धः-१, अध्ययनं. ३, उद्देशक:३
१७३
इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा सर्वकालंयात्रा-संयमयात्रा तस्यांमात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच॥१॥ "आहारार्थं कर्म कुर्यादनिन्छ, स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात्"
-सैवात्मगुप्तता कथं स्यादिति चेदाहमू. (१२७) विराग स्वेहिंगच्छिज्जा महया खुहुएहि य, ॥आगइं गई परिण्णाय दोहिवि अंतेहिं अस्समाणेहिं से न छिज्जइ न भिजइन डझइ नहंमइ कंचणं सब्बलोए
दृ. 'विराग' मित्यादि, विरञ्जनंविरागस्तं विरागं रूपेषुमनोज्ञेषुचक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, रूपमतीवाऽऽक्षेपकारीअतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागंगच्छेदित्युक्तं स्यात्, महता-दिव्यभावेन यद्वयवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति॥१॥ "विसयंमि पंचगंमीवि, दुविहंमि तियं तियं ।
भावओ सुहुजाणित्ता, से न लिप्पइ दोसुवि" शब्दादिविषयपञ्चकेऽपिइष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत्भावतःपरमार्थतः सुष्टुज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादति भावः, स्यात्-किमालम्ब्वैतत्कर्तव्यमित्याह-'आगइ मित्यादि, आगमनम्-आगतिः साचतिर्यङ्मनुष्योश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयो॰धा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्मावाद, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिंच परिज्ञाय संसारचक्रवालेऽकधट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामध्श्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इत्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि
___ 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः । अपरेचसाम्प्रतक्षिणः कुतोवयमागताः? कवयास्यामः? किंवा तत्रनः सम्पत्स्यते? नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाहमू. (१२८) अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं
भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं।। वृ.रूपकं, 'अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोमूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो मावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च--
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org