________________
१७२
आचारागसूत्रम् 9/-1३/३/१२५ तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं नकुर्यात् ।
सर्वत्रात्मौपम्यं समाचरेदित्याह-आयओ' इत्यादि, यथाह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपिजन्तूनांसुखप्रियत्वमसुखाप्रियत्वंच पश्य' अवधारय तदेवमात्मसमतांसर्वप्राणिनामवधायकिंकर्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपिजन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यानाप्यपरैस्तान् जन्तून् विविधैःनानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्वान् स्वयं पाषण्डिनो न मन्तितथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्धातयन्ति।नचैकान्तेन पाषकाकरणमात्रतया श्रमणो भवतीतिदर्शयति-जमिण' मित्यादि, यदिदं यदेतत् पापकर्माकरणताकरणं, किंतद्?, दर्शयति-अन्योऽन्यस्यपरस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशझ्याऽपेक्षया वा
पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायी नसअज्ञे किमेतावतैवमुनिरसौ?, नैवमुनिरित्यर्थः, अद्रोहाध्यवसायोहि मुनिभावकारणं,सचतत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा पृच्छति-यदिदं परस्पराशया आधाकर्मादिपरिहरणं तन्मुनिमावाङ्गता यात्याहोस्विन्नेति?,आचार्यआह-सौम्य!निरस्तापरव्यापारःश्रृणु-'जमिण मित्यादि, अपरोपाधिनिरस्तहेयव्या-पारत्वमेव मुनिभावकारणमिति भावार्थः, यतःशुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयंतावनिश्चयनयाभिप्रायोय व्यवहाराभिप्रायेणतूच्यतेयोहि सम्यग्दष्टिरुक्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जयागुवद्याराध्यभयेन गौरवेण वाकेनिचिदाधाकादिपरिहरन्प्रत्युपेक्षणादिकाः क्रियाः करोति, यदिचतीर्थोद्मासनाय मासक्षपणातापनादिकाजनविज्ञाताः क्रियाः करोति, तत्रतस्य मुनिभावएवकारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥तदेवंशुमान्तःकरणव्यापारविकलस्यमुनित्वेसदसद्मावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आहमू. (१२६) समयं तत्युवेहाए अप्पाणं विप्पसायएअन्नन्नपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए
वृ. समभावः समता तां तत्रोटोक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करकरोति येन केनचिप्रकारेणानेषणीयपरिहरणंलज्जादिना जनविदितं चोपवासादितत्सर्वमुनिभावकारणमिति, यदिवासमयम्-आगमंतत्रोप्रेक्ष्य यदागमोक्तविधिनानुष्ठानंतत्सर्वमुनिभावकारणमितिभावार्थः, तेन चा गमोक्षणेनसमतोप्रेक्षयावाऽऽत्मानं विप्रसादयेद् विविधं प्रसादयेदागमपालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नताचसंयमस्थस्यभवति, तत्राप्रमादवता भाव्यमित्याहच-'अनन्नपरममित्याद्यनुष्टुप, न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नोप्रमादयेत्' तस्यप्रमादनकुर्यात्कदाचिदपि, यथा चाप्रमादवत्ताभवति तथा दर्शयितुमाह-'आयगुत्ते' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org