________________
श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक: २
-
१७१
लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः- “मच्छा मणुआ य सत्तमि पुढविं" ते च महालोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः - वधाद्विरतः स्यात्, किंच- 'छिंदिज्ज' इत्यादि, शोकं भावश्रोतो वा छिन्द्यात्अपनयेत् किम्भूतो ? - लघुभूतो मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी,
मू. (१२४) गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिण्णायचरिज्ज दंते ।
उम्मज लद्धुं इह माणेवेहिं, नो पाणिणं पाणे समारभिज्जा सि ॥ त्तिबेमि ।
वृ. पुनरप्युपदेशदानायाह-'गन्थ' मित्यादि, 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालनतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत्, किंच- 'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह –‘उम्मज्जलद्धु' मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारदे जीवकच्छपः श्रुति श्रद्धासंयमवीर्यरूपमुन्मज्जनमासाद्य - लब्ध्वा अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, कत्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह 'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्-पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिश्वासायुष्कलक्षणान् 'नो समारभेथाः' न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
अध्ययनं ३, उद्देशकः २ समाप्तः
-: अध्ययननं- ३, उद्देशकः-३ :
वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितं न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्म्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धोनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्धारयितव्यं तच्चेदम्
मू. (१२५) संधि लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता विधायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्पं, किं तत्थ मुनी कारणं सिया ?
वृ तत्र सन्धिद्रव्यतो भावतश्च तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्म्मविवरं, तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान्, एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, सच भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कर्म्मोदयात् त्रुट्यतः पुनः सन्धानं-मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शनचारित्रार्हे भावसन्धिं ज्ञात्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org