SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ आचाराङ्ग सूत्रम् 9/1३/४/१३४ तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह “पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथाचतीर्थकृत्संयमापकारिकषायशस्त्रोपरमात्मकर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण' मित्यादि, आदीयते-गृह्यते आत्माप्रदेशैः सह श्लिष्यतेऽष्प्रकारकर्मयेन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वातस्थितेनिमित्तत्वात्कषाया वाऽऽदानं तद्वमिता स्वकृतमिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्मणांकषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्था-नात्।। ननुचहेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौन सर्वज्ञ इति सङ्गिरामहे, एतावतैवपरोपकारकर्तृत्वेनतीर्थकरत्वोपपत्तेः,तदेतन सत्तांमनांस्थानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो, यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह मू. (१३५) जे एगंजाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगंजाणइ । वृ. 'यः' कश्चिदविशेषितः एक परमाण्वादिद्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनामावित्वाद्, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-'जेसव्व' मित्यादि, यः सर्वं संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्॥१॥ “एगतदवियस्स जे अस्थपञ्जवा चयणपज्जवा वावि। तीयाणागयभूया तावइयं तं हवइ दव्वं" तदेवं सर्वज्ञस्तीर्थकृत, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशंददातीति दर्शयति मू. (१३६) सब्बओ पमत्तस्स भयं, सब्बओ अप्पमत्तस्स नत्यि भयं, जे एग नामे से बहुं नामे, जे बहुं नामे से एग नामे, दुक्खंलोगस्स जाणित्तावंता लोगस्स संजोगंजंतिधीरा महाजाणं, परेण परंजंति, नावकखंति जीवियं । घृ. सर्वतः-सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भयं' भीतिः, तद्यथा प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयंभावतो हिंसादिभिः, यदिवा सर्वत्र' सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्तिभयमिति, आह च-'सव्वओ' इत्यादि, 'सर्वतः' ऐहिकामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च कषायाभावद्भवति, तदभावाचशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावेसति बहूनामभावसम्भवः, एकाभावोऽपिबहूवभावानान्तरीयकइत्येवंगतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy