________________
१५८
आचाराङ्ग सूत्रम् 91-1३/--- [नि. २०९]
वृ. 'दह्यते' परिपच्यते, कोऽसौ ? - 'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापरोऽसावपि दह्यते, तथा उदीर्णोविपाकापनो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्याप्त्यमावे काङ्क्षद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमयप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णातरं तप इति गाथाशकलेन दर्शयति-उष्णतरं तपो भवति, किमिति ? -यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिइन्ने परीषहप्रमादोध-मादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोतिनि. [२१०] सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो।
हुञ्ज समणो सया उज्जुओ यतवसंजमोवसमे ।। वृ. शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियाक्त, शरीरमनसोरनुकूलंसुखमति, तद्विपरीतं दुःखं, तथा परीषहकषायवेदशोकान् शीतोष्णभूतान सहत इति । तदेवं शीतोष्णादिसहः सन भवेत् 'श्रमणः' यतिः सदोधुक्तश्च, क्व? तपःसंयमोपशमे इति गाथार्थः । साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिनि. [२११] सीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाई।
कामान सेवियव्वा सीओसणिज्जस्स निझुत्ती॥ __ वृ. 'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानिनागभिहितानितानि भिक्षूणां मुमुक्षूणांविषोढव्यानि, नसुखदुःखयोः उत्सेकविषादौ विधेयौ, तानिचैवंसम्यग्दृष्टिनासह्यन्तेयदि कामपरित्यागोभवतीति गाथाशकलेनाह - 'कामा' इत्यादि गाथार्द्ध सुगर्म । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषव्रातविकलं सूत्रमुचारयितव्यं, तच्चेदम्
-अध्ययनं ३-उद्देशक-१:मू. (१०९) सुत्ता अमुनी सया मुनिनो जागरंति।
वृ.अस्यचानन्तरसूत्रेण सम्बन्धोवाच्यः,सचायम्-इहदुःखीदुःखानामेवावर्तमनुपरिवर्तत इत्युक्तं, यदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्तन्ते इति, उक्तंच॥१॥ “नातः परमहं मन्ये, जगतो दुःखकारणम् ।
यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् । 'इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तोद्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततोये अमुनयः'मिथ्याध्ष्टयः सततंभावसुप्ताः सद्विज्ञानानुछानरहितत्वात् निद्रयातु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कविचद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गायां जगाद
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org