________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १
नि. [२१२] सुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुंति । धम्मं पडु एवं निद्दासुत्तेण भइयव्यं ॥
वृ. सुप्ता द्विधा - द्रव्यतो भावतश्च तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो - गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिध्यात्वादि- निद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सद जागरा एव, एवं च धर्म्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुतेन तु भाज्यमेतद्-धर्म्मः स्याद्वा न वा, यद्यसौ भावतो जागर्त्ति ततो निद्रसुप्तस्यापि धर्म्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादा-वष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्य सुप्तस्य धर्म्मो न भवतीति ?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्वन्धश्च मिथ्याधष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिरर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तोनिद्राप्रमादः । यथा च द्रव्यसुप्तो दुःखमवापप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह
नि. [२१३]
सुत्तमत्तमुच्छि असहीणो पावए बहुं दुक्खं । तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ॥
बृ. सुप्तो निद्रया भत्तो मदिरादिना मूर्च्छितो गाढमर्म्मप्रहारादिना अस्वाधीनः परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति तथा भावस्वापेमिध्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्त्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः ॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाह - नि. [२१४] एसेव य उवएसो पदित्त पयलाय पंथमाईसुं । अनुहवइ जह सचेओ सुहाई समणोऽवि तह चैव ॥
वृ. 'एष एव ' पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि - सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथिविषयेच सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः
11911
॥२॥
१५९
“जागरह नरा निश्चं जागरमाणस्स वड्ढए बुद्धी । जो सुअन सो धन्नो जो जग्गइ सो सया धन्नो ।। सुअर सुअंतरस सुअं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org