________________
श्रुतस्कन्धः-१, अध्ययनं-३, उपोद्घातः
१५७ वृ. तीव्रो-दुःसहःपरिणामः-परिणतिर्येषांतेतथा, यएवम्भूताः परीषहास्ते उष्णाः, येतु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्तेतीव्रपरिणामत्वादुष्णाः,येपुनरुदीर्णाःशारीरमेव केवलंदुःखमुत्पादयन्ति महासत्त्वस्यनमानसंतेभावतोमन्दपरिणामाः,यदिवायेतीव्रपरिणामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः,येतुमन्दपरिणामाः-ईषल्लक्ष्यमाणस्वरूपास्तेशीता इति।यत्परीषहानन्तरंप्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युधम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे - नि. [२०५] धर्ममिजोपमायइ अत्थे वा सीअलुत्ति तं बिति ।
उजुत्तंपुण अनंतत्तो उहंति णं बिंति॥दारं ।। वृ. 'धर्मे श्रमणधर्मे यः 'प्रमाद्यति'नोद्यमं विधत्ते 'अर्थे वा' अर्थ्यतइत्यर्थो-धनधान्यहिरण्या-दिस्तत्र तदुपायेवाशीतलइत्येवंतं 'ब्रुवते' आचक्षते, उद्युक्तंपुनरन्यंततः-संयमोघमात् कारणादुष्णमित्येवंब्रुवते, णमिति वाक्यालङ्कार इतिगाथार्थः ।। उपशमपदव्याचिख्यासयाऽऽह नि. [२०६] सीऊभुओ परिनिव्वुओय संतो तहेव पण्हाणो (ल्हाओ)।
होउवसंतकसाओतनुवसंतो भवे जीवो।।दारं ॥ वृ. उपशमोहिक्रोधाधुदयाभावे भवति, ततश्च कषायाग्नयुपशमात्शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात्परिनिर्वृत्तो भवति, चः समुच्चये, रागद्वेषपावकोपशमपदुशान्तः,तथा क्रोधादिपरितापोपशमात् 'प्रह्लादितः' आपनसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थकानि वैतानीति गाथार्थः।।
अधुना विरतिप-दव्याख्यामाह -- नि. [२०७] अभयकरो जीवाणं सीयधरो संजमो भवइ सीओ।
अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ।।दारं ।। वृ. अभयकरण शीलः, केषां? जीवानां, शीतं-सुखं तद्गृहं-तदावासः, कोऽसौ ?संयमः सप्तदशभेदः,अतोऽसौशीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखस्वरूपो विवक्षावशाद्भवतीति गाथार्थः ।। साम्प्रतं सुखपदविवरणायाह -- नि. [२०८] निव्याणसुहं सायं सीईभूयं पयं अनाबाहं।
इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं ।। वृ. सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकंपरमार्थचिन्तायांमुक्तिसुखमेवसुखंनापरम्, एतच्चसमस्तकोपतापाभावाच्छीतमिति दर्शयति-निर्वाणसुखमिति, निर्वाणम् -अशेषकर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातशीतीभूतपदमनाबाधमिति।इहापिसंसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतंसातं सुखंतदपिशीतंमनआल्हादाद्, एतद्विपयर्यस्तुदुःखं, तघोष्णमिति गाथार्थः ।। कषायादिपदव्याचिख्यासयाह - नि. [२०१] डज्झइ तिव्वकसाओ सोगभिभूओ उइनवेओ य ।
उण्हयरो होइ तवो कसायमाईवि जंडहइ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org