________________
आचाराङ्ग सूत्रम् १/-/२/६/१०२
?
नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यं तत्राप्यतिसहनं विधेयमिति, उक्तं“सद्देसु अ भद्दयपावसु, सोयविसयमुवगएसु । तुट्टेण व रुट्टेण व समणेण सया न होअव्वं
119 11
एवं रूवेसु अ भद्दयपावएसु । तहा गंधेसु अ ० ॥" इत्यादि वाच्यं, ततश्च शब्दादीन्विषयानतिसहमान: किं कुर्यादित्याह- 'निव्विंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् 'इह' मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दि:- तुष्टिः प्रमोदो यथा ममैतत्समृद्धयादिकमभूद्मवति भविष्यति वेत्येवंविकल्पजनितां नन्दीं जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च
119 11 विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् "
एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारध्ष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्- किमालम्ब्य करोतीत्याह-'मुनी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? - धुनीयात् कर्म्मशरीरकं औदारिकादिशरीरं वा, अथवा 'धुनीहि' विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथंतच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याहपू. (१०३) पंतं लूहं सेवंतिवीरा संमत्तदंसिणो ।
१५०
एस ओहंतरे मुनी तिन्ने मुत्ते विरए वियाहिए- तिबेमि ॥
वृ. 'प्रान्तं' स्वाभाविकरसरहितं स्वल्पं वा 'रूक्षम्' आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ? - 'वीरा' साधवः, किंभूताः ? - 'समत्वदर्शिनः' रागद्वेषरहिताः सम्यकत्वदर्शिनो वा सम्यक् तत्त्वं सम्यकत्वं तद्दर्शिनः परमार्थध्शः, तथाहि इदं शरीरकं कृतघ्नं निरुपकारिएतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति । कोऽसौ ? - 'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवीद्यं, कश्च भवौघं तरति ? - यो 'मुक्तः ' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्ती, ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह
मू. (१०४) दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ बत्तए, एस वीरे पसंसिए, अच्छे लोयसंजोगं, एस नाए पवुच्चइ ।
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org