________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः ६
तं परित्राय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिवमिजासि-त्तिबेमि ॥
वृ. भमायितं मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो - द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति -सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावान्नगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमित्याह से हु' इत्यादि, यो हि मोक्षैकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः ध्ये ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः- अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञात्तभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह
1
१४९
'जस्स' इत्यादि, यस्य 'ममायितं' स्वीकृतं परिग्रहो न विद्यते स दृटभयो मुनिरिति सम्बन्धः, किंच- 'तं' इत्यादि, 'तं' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञातज्ञेयो विदित्वा 'लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो ? - 'मतिमान् ' सदसद्विवेकज्ञः 'पराक्रमेथाः 'संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग्विदध्याइतियावद्, अथवाऽष्टप्रकारं कम्र्म्मारिषड्वर्गं वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्ती, वीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह
पू. (१०१)
नारइं सहई वीरे, वीरे न सहई रतिं ।
जम्हा अविमणे वीरे, तम्हा वीरेन रञ्जइ ॥
वृ. तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ? - विशेषेणेरयति - प्रेश्यति अष्टप्रकारं कर्म्मारिषड्वर्गं वेति वीरः - शक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गार्घ्यं विदधाति । यत एवं ततः किमित्याह
मू. (१०२) सद्दे फासे अहियासमाणे निव्विंद नंदिं इह जीवियस्स ।
मुनी मोनं समायाय, धुणे कम्मसरीरगं ॥
वृ. यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे 'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति - मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org