________________
૧૪૮
आचाराङ्ग सूत्रम् १/-/२/६/९९ करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि सुखार्थी सन्कृष्यादिकम्र्म्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्नि धर्मापनोदार्थं वायुं आहारार्थी वनस्पतिं त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह - 'सएण इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्म्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति उक्तं च'दुःखद्विट् सुख लिप्सुर्मोहान्धत्वाददष्टगुणदोषः । यां यांकरोति चेष्टां तया तया दुःखमादत्ते "
॥ १ ॥
यदिवा 'मूढो' हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति - हितमप्यहितबुद्धयाऽधितिष्ठत्यहितं च हितबुद्धयेति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति-मोहोऽज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह- 'सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन - मद्यादिना 'विविध'मिति मद्यविषयकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्णं 'चय' मिति वयन्ति - पर्यटन्ति प्राणिनः स्वकीयेन कर्म्मणा यस्मिन् स वयःसंसारस्तं प्रकरोति, एकैकस्मिन् कार्य दीर्घकालावस्थानादू, यदिवा कारणे कार्योपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्म्मणा वयः- अवस्थाविशेषस्तमकेन्द्रियादिकललार्बुदादितदर्जातबालादिव्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षेण करोति-विधत्त इति
तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीडयन्ते इति दर्शयितुमाह
'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्म्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे चा 'इमे' प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचाराव्याणिनः 'प्रव्यथिताः ' नानाप्रकारेव्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवमिश्चगृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह- 'पडि' इत्यादि, एतत् संसारचक्र वाले स्वकृतकर्म्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतो वा कम्र्म्मविपाको वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुर्निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्करणं निकारः- शारीरमानसदुःखोत्पादनं तस्मै नो कर्म्म कुर्याद्, येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह- 'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा- एतत्तत्त्वतः परिज्ञानं प्रकर्षेणोच्येत प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह- 'कम्मोवसंती' त्ति कर्म्मणाम् अशेषद्वन्द्वव्रातात्मकसंसारतरुबीजभूतानामुपशान्तिः- उपशमः, कर्म्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्म्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाहमू. (१००) जे ममाइयमइं जहाइ से चयइ ममाइयं, सेहु दिट्ठपहे मुनी जस्स नत्थि ममाइयं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org