________________
१४७
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः६
मू. (९८) सेतं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्म नेव कुञान कारवेजा
वृ.यस्यानगारस्यैतत्पूर्वोक्तंन जायते सोऽनगारस्तत्-प्राण्युपधातकारिचिकित्सोपदेशदानमनुष्टानं वा संबुद्धयमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाच परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् ‘उत्थाये' त्यनेकार्थत्वादादायगृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं सम्यगवबुद्धयमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्वं सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, कत्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात्कर्म क्रियांनकुर्यात्स्वतोमनसाऽपि नसमनुजानीयादित्यवधारणफलं, अपरेणापिनकारयेदिति,आहच 'नकारदे इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं समनुजानीयाधोगत्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विनेत्याह
मू. (९९) सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ, सुहट्ठी लालप्पमाणे, सएणदुक्खेण मूढे विपरियासमुवेइ, सएणविप्पमाएण पुढो वयंपकुव्वइ, जसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती॥
वृ. 'स्यात्तत्र' कदाचित्तत्र पापारम्भे “एकतरं' पृथिवीकायादिसमारम्भ विपरामृशतिपृथिवीकायादिसमारम्भंकरोति, एकतरंवाऽऽश्रवद्वारंपरामृशति-आरभतेसषट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते इत्येवं मन्यते ?, कुम्भकारशालोदकालावनदष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवाप्राणातिपातानवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वाअपरजीवातिपातीद्रष्टव्यः,प्रतिज्ञालोपाच्चानृतो, न च तेन व्यापाद्यमानेना सुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातेऽतः प्राणिनः प्राणान्गृह्णनदत्तग्राही, सावद्योपादानाच्च पारिग्राहिकः, परिग्रहाच्च मैथुनरात्रीभोजने अपिगृहीते, यतोनापरिगृहीतमुपभुज्यतेपरिभुज्यतेचेत्यतोऽन्यतरारम्भेषण्णामप्यारम्भोऽथवाअनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद् ?, अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपिपापसमारम्भ य आरभते स षट्स्वन्यतरस्मिन् कल्पते-योग्यो भवति,
अकर्तव्यप्रवृत्तत्वाद्, अथवैकतरपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन् कल्पते-पौनः पुग्येनोत्पद्यत इत्यर्थः, स्यात् किमर्थमवंविधं पापकं कर्मसमारभते ?, तदुच्यते- 'सुहठ्ठी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्त्यर्थं लपति पुनःपुनर्वा लपति लालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org