________________
१४६
आचाराङ्ग सूत्रम् १/-/२/५/९६ अजरामरवक्रियासुप्रवर्तन्तइति ।यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह'अट्ट' इत्यादि,अतिः-शारीरमानसीपीडातत्रभव आर्तस्तमार्त्तममरायमाणंकामार्थमहाश्रद्धावन्तं 'प्रेक्ष्य' दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते -'अपरिण्णाए'इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते' भोगेष्वप्राप्तनष्टेषु कासशोकावनुभवतीति, उक्तंच॥१॥ “चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतप्तिः ।
द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति " इत्यादि । तदेवमनेकधा कामविपाकमुपदय उपसंहरति
मू. (९७) से तंजाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्तालुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवियणं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अनगारस्स जायइ ।।
पृ. 'सेति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्धत्येवेत्येतदाशङ्कयाह-'तेइच्छं' इत्यादि, कामचिकित्सां 'पण्डितः' पण्डिताभिमानीप्रवदन्नपरव्याधिचिकित्सामिवोपदिशनपरः-तीर्थकोजीवोपमर्देवर्तत इति,आह'सेहता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः छेत्ता कर्णादीनां भत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिनाविलुम्पयिताअवस्कन्दादिनाअपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थशां सम्पद्यते,
किंच-'अकृतं' यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनंवा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च-'जस्सवि य णं' इत्यादि, यस्याप्यसावेवंभूतां चिकित्सांकरोति, न केवलंस्वस्येत्यपिशब्दार्थः, तयोर्द्धयोरपिकर्तुः कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य अज्ञस्य 'सङ्गेन' कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत् कारयति 'बालः' अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्वस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्देन चिकित्सोपदेशदानं करणं वा 'अनगारस्य साधोः ज्ञातंसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सा व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बालाः-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-२, उद्देशकः-५-समाप्तः
अध्ययन-२, उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुनालोकेममत्वन कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुनाप्रतिपाद्यतेअस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैवमनगारस्य जायत' इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org