________________
श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक: ६
वृ. वसु- द्रव्यमेतच्च भव्येऽर्धे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनि:मोक्षगमनायोग्यः, स च कुतो भवति ? - अनाज्ञया तीर्थंकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यं, तथाहि मिथ्यात्वमोहिते लोके संबोद्धुंदुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं शब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने चकम्र्म्मादयोऽनाद्यतीतकालसुखभावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह
'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्प भगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च- 'एस' इत्यादि, 'एष' इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्म्मविदारणात् ' प्रशंसितः' तद्विमिः श्लाधित इति । किं च'अच्चेई' त्यादि, स एवं भगवदाज्ञानुवर्त्तको वीरोऽत्येति - अतिक्रामति,
कं? - 'लोकसंयोगं' लोकेनासंयतलोकेन संयोगः- सम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म्म तेन सार्द्ध संयोगमत्येति-अतिलङ्घयतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः' एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि धञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते - मोक्षप्रापकोऽभिधीयते सदुपदेशात् । स्यादेतत्किंभूतोऽसावुपदेश इत्यत आह
मू. (१०५) जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्त्रमुदाहरति, इह कम्मं परित्राय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणन्नारामे से अणन्नदंसी, जहा पुन्नस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ ||
वृ. यद्दः खं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे ‘मानवानां’ जन्तूनां ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्म्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च। किंच - 'इति कम्मं इत्यादि, इतिः पूर्वप्रकान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञानं कुशला उदाहरन्ति तद्दुःखं कर्म्मभूतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
१५१