________________
१३४
आचाराङ्ग सूत्रम् १/-/२/४/८६ स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह- 'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ? -
ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः- छादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमितिदर्शयति-‘थीभि' इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लीकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्माविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनथः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्तियथैतानि - स्त्र्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भवति-शारीरमानसासात वेदनीयोदयाय जायते, किं च'मोहाए' मोहनीयकबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थं, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुध्वृत्त्य तिरश्चयेतठप्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह
'सययं' इत्यादि, सततम् - अनवरतं दुःखाभिभूतो मूढो ' धम्म ' क्षान्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं ' न जानाति न वेत्ति । एतच्च तीर्थकृदाहेति दर्शयति- 'उदाहु' इत्यादि, उत् प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ? - वीरः- अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान् ?, तदेव पूर्वोक्तं वाचा दर्शयति- 'अप्रमादः' कर्त्तव्यः, का ? - 'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च- 'अलम्' इत्यादि, 'अलं' पर्याप्त - कस्य? 'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं ? – मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात् किमालम्ब्य प्रमादेनालमिति उच्यते- 'सन्ति' इत्यादि, शमनं शान्तिः - अशेषकर्म्मापगमोऽतो मोक्ष एव शान्तिरिति, म्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे समरणः संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्यालोच्य प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या - उपशमेन मरणं - मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्यादिति । किं च- 'भेउर' इत्यादि, प्रमादोहि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म्म, स्वत एव भिद्यत इति भिदुरं स एव धर्म्मः स्वभावो यस्य तद्मिदुरधर्मे एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- 'नालं' इत्यादि, 'नालं' न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् 'पश्य' जानीहि, अतोऽलं तव कुशल! 'एभिः’प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च
7
11911
Jain Education International
"यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु
For Private & Personal Use Only
www.jainelibrary.org